SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 259 // उद्यानं च तत्पुरिमतालं च उद्यानपुरिमतालं तस्मिन्, पुर्यां विनीतायां तत्र ज्ञानवरं भगवत उत्पन्नमिति वाक्यशेषः / तथा तस्मिन्नेवाहनि भरतस्य नृपतेरायुधशालायां चक्रोत्पादश्च बभूव / भरहे निवेअणं चेव दोण्हपि त्ति भरताय निवेदनं च द्वयोरपिज्ञानरत्नचक्ररत्नयोः तन्नियुक्तपुरुषैः कृतमित्यध्याहार इति गाथार्थः // 342 / / अत्रान्तरे भरतश्चिन्तयामास-पूजा तावद्द्योरपि कार्या, कस्य प्रथमं कर्तुं युज्यते? किं चक्ररत्नस्य उत तातस्येति, तत्र नि०- तायंमि पूइए चक्क पूड़अंपूअणारिहो ताओ। इहलोइअंतु चक्कं परलोअसुहावहोताओ॥३४३॥ ताते- त्रैलोक्यगुरौ पूजिते सति चक्रं पूजितमेव, तत्पूजानिबन्धनत्वाच्चक्रस्य / तथा पूजामहतीति पूजार्हः तातो वर्त्तते , देवेन्द्रादिनुतत्वात् / तथा इह लोके भवं चैहलौकिकं तु चक्रम्, तुरेवकारार्थः, स चावधारणे, किमवधारयति? ऐहिकमेव चक्रम्, सांसारिकसुखहेतुत्वात् / परलोके सुखावहः परलोकसुखावहस्तातः, शिवसुखहेतुत्वादिति गाथार्थः // 343 // तस्मात् तिष्ठतु तावच्चक्रम्, तातस्य पूजा कर्तुं युज्यते इति संप्रधार्य तत्पूजाकरणसंदेशव्यापृतो बभूव / इदानीं कथानकं-भरहोसव्विड्डीए भगवंतं वंदिउं पयट्टो, मरुदेवीसामिणी य भगवंते पव्वइए भरहरज्जसिरिंपासिऊण भणियाइआ-मम पुत्तस्स एरिसी रजसिरी आसि, संपयं सो खुहापिवासापरिगओ नग्गओ हिंडइत्ति उव्वेयं करियाइआ, भरहस्स तित्थकरविभूई वण्णेतस्सवि न पत्तिजियाइआ, पुत्तसोगेण य से किल झामलं चक्टुं जायं रुयंतीए, तो भरहेण गच्छंतेण विण्णत्ता- अम्मो! एहि, जेण ®आउहवरसालाए उप्पण्णं चक्करयण भरहस्स। जक्खसहस्सपरिवुडं सव्वरयणामयं चक्कं // 1 // (प्र० अव्या०)0 भरतः सर्वा भगवन्तं वन्दितुं प्रवृत्तः, मरुदेवीस्वामिनी च भगवति प्रव्रजिते भरतराज्यश्रियं दृष्ट्वा भणितवती- मम पुत्रस्येदृशी राज्यश्रीरभवत्, साम्प्रतं स क्षुत्पिपासापरिगतः नग्नो हिण्डत इत्युद्वेगं कृतवती, भरते तीर्थकरविभूतिं वर्णयत्यपि न प्रतीतवती, पुत्रशोकेन च तस्याः किल ध्यामलं चक्षुर्जातं रुदत्याः, तदा भरतेन गच्छता विज्ञप्ता-अम्ब! एहि, येन . 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्ति: 342 ज्ञानचक्रोत्पातौ। नियुक्ति: 343 ज्ञानचक्रोत्पाती, तातपूजा, मरुदेवीनिर्गम:, पुत्रादेमरीचेच दीक्षा। // 259 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy