________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 249 // 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः |315-316 प्रव्रज्या विहारश्च। तत्र तेषां दीक्षां किं भगवान् प्रयच्छति उत नेति, नेत्याह नि०- चउरोसाहस्सीओ लोअंकाऊण अप्पणा चेव / जंएस जहा काही तंतह अम्हेऽवि काहामो॥३१५॥ प्राकृतशैल्या चत्वारि सहस्राणि लोचं पञ्चमुष्टिकं कृत्वा आत्मना चैव इत्थं प्रतिज्ञां कृतवन्तः- यत् क्रियाऽनुष्ठानं एष भगवान् यथा येन प्रकारेण करिष्यति तत्तथा अम्हेऽवि काहामोत्ति वयमपि करिष्याम इति गाथार्थः ॥३१५॥भगवानपि भुवनगुरुत्वात्स्वयमेव सामायिकं प्रतिपद्य विजहार / तथा चाह नि०- उसभोवरवसभगई चित्तूणमभिग्गहं परमघोरं / वोसट्टचत्तदेहो विहरइ गामाणुगामं तु // 316 // ऋषभो वृषभसमगतिर्गृहीत्वा अभिग्रहं परमघोरं परमः- परमसुखहेतुभूतत्वाद्धोरः- प्राकृतपुरुषैः कर्तुमशक्यत्वात् तम्, व्युत्सृष्टत्यक्तदेहो विहरति ग्रामानुग्रामं तु व्युत्सृष्टो-निष्प्रतिकर्मशरीरतया, तथा चोक्तं अच्छिपि नो पमज्जिज्जा, णोऽवि य कंडुविया मुणी गायं त्यक्तः- खलु दिव्याधुपसर्गसहिष्णुतया, शेषं सुगममिति गाथार्थः // 316 // स एवं भगवांस्तैरात्मीयैः परिवृतो विजहार, न च तदाऽद्यापि भिक्षादानं प्रवर्त्तते, लोकस्य परिपूर्णत्वादर्थ्यभावाच्च, तथा चाह मूलभाष्यकार: भा०- णवि ताव जणोजाणइ का भिक्खा? केरिसा व भिक्खयरा?। ते भिक्खमलभमाणावणमझे तावसा जाया // 31 // नापि तावज्जनो जानाति-का भिक्षा? कीदृशा वा भिक्षाचरा इति, अतस्ते भगवत्परिकरभूता भिक्षामलभमानाः क्षुत्परीषहार्ता भगवतो मौनव्रतावस्थिताद् उपदेशमलभमाना: कच्छमहाकच्छावेवोक्तवन्त:- अस्माकमनाथानां भवन्तौ नेताराविति, अतः कियन्तं कालमस्माभिरेवं क्षुत्पिपासोपगतैरासितव्यं?, तावाहतुः- वयमपि न विद्मः, यदिभगवान् अनागतमेव पृष्टो भवेत् 0वसभसमगइ। 0 अक्ष्यपि नो प्रमार्जयेत् नापि च कण्डूयेत् मुनिर्गात्रम्। क्षरा ज्ञानेन आहाराऽलाभः। // 249 //