________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 238 // कालं यावत्?- प्रातरशनं प्रातराशः प्रातर्भोजनकालं यावदिति गाथार्थः / / 217 // यथा दीयते तथा प्रतिपादयन्नाह नि०- सिंघाडगतिगचउक्कचच्चरचउमुहमहापहपहेसुं। दारेसु पुरवराणं रत्थामुहमज्झयारेसुं॥२१८॥ नि०- वरवरिआघोसिज्जइ किमिच्छअंदिज्जए बहुविही।सुरअसुरदेवदाणवनरिंदमहिआण निक्खमणे // 219 // तत्र शृङ्गाटकं A त्रिकं | चतुष्कं + चत्वरं * चतुर्मुखं + महापथो राजमार्गः, पथशब्दः प्रत्येकमभिसम्बध्यते, सिङ्घाटकं च त्रिकं चेत्यादिद्वन्द्वः क्रियते, तथा द्वारेषु पुरवराणां प्रतोलिषु इति भावार्थः, रथ्यामुखानि रथ्याप्रवेशा मध्यकारा मध्या एव तेषु रथ्यामुखमध्यकारेष्विति गाथार्थः॥ किं?, वरवरिका घोष्यते- वरं याचध्वं वरं याचध्वमित्येवं घोषणा समयपरिभाषया वरवरिकोच्यते, किमिच्छकंदीयत इति-कः किमिच्छति? यो यदिच्छति तस्य तद्दानं समयत एव किमिच्छकमित्युच्यते / एकमपि वस्त्वङ्गीकृत्यैतत्परिसमाप्त्या भवति, अतः बहवो विधयो मुक्ताफलप्रदानादिलक्षणा यस्मिंस्तद्बहुविधिकम् / सुरअसुरेत्यादि सुरअसुरग्रहणात् चतुष्प्रकारदेवनिकायग्रहणम्, देवदानवनरग्रहणेन तदुपलक्षितेन्द्रग्रहणं वेदितव्यमिति गाथार्थः / / 218-219 // इदानीमेकैकेन तीर्थकृता कियव्यजातं संवत्सरेण दत्तमिति प्रतिपादयन्नाह नि०- तिण्णेव य कोडिसया अट्ठासीइंच हुंति कोडीओ। असिइंच सयसहस्सा एअंसंवच्छरे दिण्णं // 220 / भावार्थः सुगम एव, प्रतिदिनदेयं त्रिभिः षष्ट्यधिकैर्वासरशतैः गुणितं यथावर्णितं भवतीति गाथार्थः // 220 // // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतौ शिष्यहितायामावश्यकटीकायांप्रथमवरवरिकाविवरणं समाप्तम् / / 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 217-220 संवत्सरदानद्रव्यसङ्ख्या / // 238 // 0 सिङ्घाटकम्। 0 मध्या०। 0याचयध्वम् /