SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ 0.3.2 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 235 // नि०-तित्थं 16 गणो 17 गणहरो 18, धम्मोवायस्स देसगा 19 / परिआअ 20 अंतकिरिआ, कस्स केण तवेण वा 21? // 211 // 0.3 उपोद्घातस्वयंबुद्धाः सर्व एव तीर्थकृतस्तथापि तु कल्प इतिकृत्वा लोकान्तिका देवाः सर्वतीर्थकृतां सम्बोधनं कुर्वन्ति / परित्याग नियुक्तिः, इति-परित्यागविषयो विधिर्वक्तव्यः, किंभगवन्तश्चारित्रप्रतिपत्तौ परित्यजन्तीति / प्रत्येकमिति-कःकियत्परिवारो निष्क्रान्तः। द्वितीयद्वारम्, उपधाविति- उपधिविषयो विधिर्वक्तव्यः, कः केनोपधिरासेवितः, को वा विनेयानामनुज्ञात इति / अन्यलिङ्गं साधुलिङ्ग वीरजिनादि वक्तव्यताः। कुलिङ्गं तापसादिलिङ्ग, तत्र न ते अन्यलिङ्गे निष्क्रान्ता नापि कुलिङ्गे, किंतु तीर्थकरलिङ्ग एवेति, ग्राम्याचाराः-विषयाः नियुक्तिः परीषहाः- क्षुत्पिपासादयः, तत्र ग्राम्याचारपरीषहयोर्विधिर्वाच्यः, कुमारप्रव्रजितैर्विषया न भुक्ताः शेषैर्भुक्ताः, परीषहाः |208-211 जिनसंबोपुनः सर्वैर्निर्जिता एवेति प्रथमद्वारगाथासमासार्थः // 209 // तत्र जीवोपलम्भः-सवैरेव तीर्थकरैर्नव जीवादिपदार्था उपलब्धा / धनादि (21) इति / श्रुतलाभः- पूर्वभवे प्रथमस्य द्वादशाङ्गानि खल्वासन् शेषाणामेकादशेति / प्रत्याख्यानं च पञ्चमहाव्रतरूपं पुरिमपश्चिमयोः द्वाराणि। मध्यमानां तु चतुर्महाव्रतरूपमिति, मैथुनस्य परिग्रहेऽन्तर्भावात् / संयमोऽपि पुरिमपश्चिमयोः सामायिकच्छेदोपस्थापनाभ्यां द्विभेदः, मध्यमानां सामायिकरूप एव, सप्तदशप्रकारो वा सर्वेषामिति / छादयतीति छद्म-कर्माभिधीयते, छद्मनि तिष्ठन्ति इति छद्मस्थाः,कः कियन्तं कालं छद्मस्थः खल्वासीदिति / तथा तपःकर्म-किं कस्येति वक्तव्यम् / तथा ज्ञानोत्पादो वक्तव्यो, यस्य यस्मिन्नहनि केवलमुत्पन्नमिति / तथा संग्रहो वक्तव्यः, शिष्यादिसंग्रह इति द्वितीयद्वारगाथासमासार्थः॥२१०॥ साम्प्रतं तत्र तीर्थमिति- कथं कस्य कदा तीर्थमुत्पन्नमित्यादि वक्तव्यम्, तीर्थं- प्रागुक्तशब्दार्थं तच्च चातुर्वर्णः श्रमणसङ्घः, तच्च // 235 // ऋषभादीनां प्रथमसमवसरण एवोत्पन्नम्, वीरस्य तु द्वितीय इति द्वारम् / गण इति- एकवाचनाचारक्रियास्थानां समुदायो न कुलसमुदाय इति, ते च ऋषभादीनां कस्य कियन्त इति वक्तव्यम् / तथा गणधराः- सूत्रकारः, ते च कस्य कियन्त इति
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy