SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 231 // एवोच्यन्ते / पुनः कियताऽपिकालेन गच्छता अजरणदोषादेव भगवदुपदेशेन हस्ततलपुटाहारा आसन्, हस्ततलपुटेषु आहारो 0.3 उपोद्घातविहितो येषामिति समासः, हस्ततलपुटेषु कियन्तमपि कालमौषधीः स्थापयित्वोपभुक्तवन्त इत्यर्थः / तथा कक्षासुस्वेदयि नियुक्तिः, 0.3.2 त्वेति, यदा किल कुलकरो वृषभः, किलशब्दः परोक्षाप्तागमवादसंसूचकः, तदा ते मिथुनका एवंभूता आसन्निति गाथार्थः। द्वितीयद्वारम्, वीरजिनादिपुनरभिहितप्रकारद्व्यादिसंयोगैराहारितवन्तः, तद्यथा-पाणिभ्यां घृष्ट्वा पत्रपुटेषुच मुहूर्तं तीमित्वा तथा हस्ताभ्यां घृष्ट्वा हस्तपुटेषु वक्तव्यता:। च मुहूर्तं धृत्वा पुनर्हस्ताभ्यां घृष्ट्वा कक्षास्वेदं च कृत्वा पुनस्तीमित्वा हस्तपुटेषु च मुहूर्तं धृत्वेत्यादिभङ्गकयोजना, केचित् भाष्य:९-१० प्रदर्शयन्ति घृष्ट्वापदं विहाय, तच्चायुक्तम्, त्वगपनयनमन्तरेण तीमितस्यापि हस्तपुटधृतस्य सौकुमार्यत्वानुपपत्तेः, श्लक्ष्णत्वम्भावत्वाद्वा अदोष इति, द्वितीययोजना पुनः- हस्ताभ्यां घृष्ट्वा पत्रपुटेषु तीमित्वा हस्तपुटेषु मुहूर्तं धृत्वेति, तृतीययोजना पुन:हस्ताभ्यां घृष्ट्वा पत्रपुटेषु च तीमित्वा हस्तपुटेषु च धृत्वा कक्षासुस्वेदयित्वेति // अमुमेवार्थमुपसंहरन्नाह भा०-घंसेऊणं तिम्मणघंसणतिम्मणपवालपुडभोई।घसणतिम्मपवाले हत्थउडे कक्खसेए य॥९॥ भावार्थ उक्त एव, नवरं उक्तार्थाक्षरयोजना- घृष्ट्वा तीमनं कृतवन्त इत्यनेन प्रागभिहितप्रत्येकभङ्गकाक्षेपः कृतोवेदितव्यः, घृष्टप्रवालपुटतीमितभोजिन इत्यनेन द्वितीययोजनाक्षेपः, घृष्टुति तिमनं प्रवाल इति प्रवाले तिमित्वा हस्तपुटे कियन्तमपि कालं विधाय भुक्तवन्त इति शेषः, इत्यनेन तृतीययोजनाक्षेपः, तथा कक्षास्वेदे च कृते सति भुक्तवन्त इत्यनेन अनन्तराभिहितत्रययुक्तेन / चतुर्भङ्गकयोजनाक्षेप इति गाथार्थः॥ अत्रान्तरे__ भा०- अगणिस्स य उट्ठाणं दुमघसा द₹ भीअपरिकहणं / पासेसुपरिछिंदह गिण्हह पागंच तो कुणह॥१०॥ 0 अजीरण० 0 ऋषभः। 0 सेईअ / 0 तिमितम् / ॐ धृष्ट्वा / // 231 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy