________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 230 // 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यता:। भाष्य: 5-8 भा०- आसी अ कंदहारा मूलाहारा य पत्तहारा य / पुष्फफलभोइणोऽवि अजइआ किर कुलगरो उसभो॥५॥ आसंश्च कन्दाहारा मूलाहाराश्च पत्राहाराश्च पुष्पफलभोजिनोऽपि च, कदा?, यदा किल कुलकर ऋषभः / भावार्थः स्पष्ट एव / नवरं ते मिथुनका एवंभूता आसन्, किलशब्दस्तु परोक्षाप्ताऽऽगमवादसंसूचक इति गाथार्थः // तथा ___भा०- आसी अइक्खुभोई इक्खागा तेण खत्तिआ हुँति ।सणसत्तरसंधण्णं आमं ओमंच भुंजीआ॥६॥ आसंश्च इक्षुभोजिन इक्ष्वाकवस्तेन क्षत्रिया भवन्ति, तथा च शणः सप्तदशो यस्य तत् शणसप्तदशं धान्यं शाल्यादि आमं अपक्वं ओमंन्यूनं च भुंजीआइति भुक्तवन्त इति गाथार्थः॥६॥तथापि तु कालदोषात्तदपि न जीर्णवन्तः, ततश्च भगवन्तं पृष्टवन्तः, भगवाँश्चाह- हस्ताभ्यां घृष्ट्वाऽऽहारयध्वमिति / अमुमेवार्थं प्रतिपादयन्नाह मूलभाष्यकृत् भा०-ओमपाहारंता अजीरमाणंमि ते जिणमुविंति। हत्थेहिँ घंसिऊणं आहारेहत्ति ते भणिआ॥७॥ ओममप्याहारयन्तः अजीर्यमाणे ते मिथुनका जिनंप्रथमतीर्थकरं उपयान्ति, सर्वावसर्पिणीस्थितिप्रदर्शनार्थो वर्तमाननिर्देशो, भगवता च हस्ताभ्यां घृष्ट्वा आहारयध्वमिति ते भणिताः सन्तः। किं? भा०- आसी अपाणिघंसी तिम्मिअतंदुलपवालपुडभोई। हत्थतलपुडाहारा जइआ किर कुलकरो उसहो॥८॥ आसँश्च ते मिथुनका भगवदुपदेशात् पाणिभ्यां घटुं शीलं येषां ते पाणिघर्षिणः, एतदुक्तं भवति- ता एवौषधीः हस्ताभ्यां घृष्ट्वा त्वचं चापनीय भुक्तवन्तः, एवमपि कालदोषात् कियत्यपि गते काले ता अपि न जीर्णवन्तः, पुनर्भगवदुपदेशत एव तीमिततन्दुलप्रवालपुटभोजिनो बभूवुः, तीमिततन्दुलान् प्रवालपुटे भोक्तुं शीलं येषां ते तथाविधाः, तन्दुलशब्देन औषध्य 0 घृष्टुम् / // 230 //