________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् 0.3.2 भाग-१ वक्तव्यताः। // 228 // तद्विषयो विधिर्वक्तव्यः, तच्च जिनेन ब्राम्या दक्षिणकरेण प्रदर्शितमिति, गणितविषयो विधिर्वाच्यः, एवमन्यत्रापि क्रिया। 0.3 उपोद्धातयोज्या, गणितं-संख्यानम्, तच्च भगवता सुन्दर्या वामकरेणोपदिष्टमिति, चः समुच्चये, रूपं- काष्ठकर्मादि, तच्च भगवता भरतस्य कथितमिति, चः पूर्ववत्, लक्षणं पुरुषलक्षणादि, तच्च भगवतैव बाहुबलिनः कथितमिति, मानमिति मानोन्माना द्वितीयद्वारम् वमानगणिमप्रतिमानलक्षणम्, पोत इति बोहित्थः प्रोतं वा अनयोर्मानपोतयोर्विधिर्वाच्यः, तत्र मानं द्विधा- धान्यमानं वीरजिनादिसमानं च, तत्र धान्यमानमुक्तं - दो असतीओ पसती इत्यादि, रसमानं तु 'चउसट्ठीया बत्तीसिआ' एवमादि 1, उन्मानं नियुक्तिः येनोन्मीयते यद्वोन्मीयते तद्यथा- कर्ष इत्यादि 2, अवमानं येनावमीयते यद्वाऽवमीयते तद्यथा- हस्तेन दण्डेन वा हस्तो 203-206 आहारादीनि वेत्यादि 3, गणिमं- यद्गण्यते एकादिसंख्ययेति 4, प्रतिमानं- गुञ्जादि 5, एतत्सर्वं तदा प्रवृत्तमिति, पोता अपि तदैव / / | (40) द्वाराणि। प्रवृत्ताः, अथवा प्रकर्षेण उतनं प्रोत:- मुक्ताफलादीनां प्रोतनं तदैव प्रवृत्तमिति प्रथमद्वारगाथासमासार्थः। द्वितीयगाथागमनिका ववहारे त्ति व्यवहारविषयो विधिर्वाच्यः, राजकुलकरणभाषाप्रदानादिलक्षणो व्यवहारः,सच तदा प्रवृत्तो, लोकानां प्रायः स्वस्वभावापगमात्, णीतित्ति नीती विधिर्वक्तव्यः, नीति:- हक्कारादिलक्षणा सामाधुपायलक्षणा वा तदैव जातेति, जुद्धे यत्ति युद्धविषयो विधिर्वाच्यः, तत्र युद्धं-बाहयुद्धादिकं लावकादीनांवा तदैवेति, ईसत्थे यत्ति प्राकृतशैल्या सुकारलोपात्। इषुशास्त्रं- धनुर्वेदः तद्विषयश्च विधिर्वाच्य इति, तदपि तदैव जातं राजधर्मे सति, अथवा एकारान्ताः सर्वत्र प्रथमान्ता एव द्रष्टव्याः, व्यवहार इति-व्यवहारस्तदा जातः, एवं सर्वत्र योज्यम्, यथा कयरे आगच्छति दित्तरूवे इत्यादि उवासणेति उपासनानापितकर्म तदपि तदैव जातम्, प्राग्व्यवस्थितनखलोमान एव प्राणिन आसन् इति, गुरुनरेन्द्रादीनां वोपासनेति, चिकित्सा 0 प्रतिपादना०। ॐ स्वभावोपग०। // 228 //