________________ 0.3.2 श्रीआवश्यक | नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ | // 226 // चेतसः कियन्तमपि कालं स्थित्वा भगवत्पादयोः तदुदकं निक्षिप्तवन्त इति, तानेवंविधक्रियोपेतान् दृष्ट्वा देवराट् अचिन्तयत् 0.3 उपोद्घातअहोखलु विनीता एते पुरुषा इति वैश्रवणं यक्षराजमाज्ञापितवान्-इह द्वादशयोजनदीर्घा नवयोजनविष्कम्भां विनीतनगरी नियुक्तिः, निष्पादयेति, स चाज्ञासमनन्तरमेव दिव्यभवनप्राकारमालोपशोभितां नगरी चक्रे / अमुमेवार्थमुपसंहरन्नाह- अत्रान्तरे द्वितीयद्वारम् नि०-भिसिणीपत्तेहिअरे उदयं धित्तुं छुहंति पाएसु / साहु विणीआपुरिसा विणीअनयरी अह निविट्ठा // 20 // वीरजिनादि वक्तव्यताः। बिसिनीपौरितरे उदकं गृहीत्वा छुभंतित्ति प्रक्षिपन्ति, वर्तमाननिर्देशः प्राग्वत्, पादयोः, देवराजोऽभिहितवान्- साधु विनीताः नियुक्ति: 200 पुरुषा विनीतनगरी अथ निविष्टेति गाथार्थः / / २००॥गतमभिषेकद्वारम्, इदानीं संग्रहद्वाराभिधित्सयाऽऽह राज्याभिषेकः, विनीतानि०-आसा हत्थी गावो गहिआईरज्जसंगहनिमित्तं / चित्तूण एवमाई चउव्विहं संगहं कुणइ // 201 // निवेशश्च / अश्वा हस्तिनो गाव एतानि चतुष्पदानि तदा गृहीतानि भगवता राज्ये संग्रहः राज्यसंग्रहस्तन्निमित्तं गृहीत्वा एवमादि नियुक्तिः 201-202 चतुष्पदजातमसौ भगवान् चतुर्विधं वक्ष्यमाणलक्षणं संग्रहं करोति, वर्तमाननिर्देशप्रयोजनं पूर्ववत्, पाठान्तरं वा चउव्विहं अश्वादि (3) संगह कासी इति अयं गाथार्थः॥ 201 // स चायं उग्रादि (4) नि०- उग्गा १भोगा २रायण्ण ३खत्तिआ ४संगहो भवे चउहा। आरक्खि गुरु रवयंसा ३सेसाजे खत्तिआ 4 ते उ॥२०२॥ उग्रा भोगा राजन्याः क्षत्रिया एषांसमुदायरूपः संग्रहो भवेच्चतुर्धा, एतेषामेव यथासंख्यं स्वरूपमाह-आरक्खीत्यादि, आरक्षका उग्रदण्डकारित्वात् उग्राः, गुर्विति गुरुस्थानीया भोगाः, वयस्या इति राजन्याः समानवयस इतिकृत्वा वयस्याः, शेषा उक्तव्यतिरिक्ता ये क्षत्रियाः ते तु तुशब्दः पुनः शब्दार्थः ते पुनः क्षत्रिया इति गाथार्थः / / 202 // इदानीं लोकस्थितिवैचित्र्य 0 विनीता०। 7 भिसिनी०1 0 देवराडभि०। 7 भोजाः।