SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 211 // दर्शनविनयौतयोर्निरतिचारः तीर्थकरनामगोत्रं कर्म बध्नाति 10-11 आवश्यक- अवश्यकर्त्तव्यं संयमव्यापारनिष्पन्नं तस्मिंश्च निरतिचारः सन्निति 12 / शीलानि च व्रतानि च शीलव्रतानि शीलानि- उत्तरगुणाः व्रतानि- मूलगुणास्तेषु च अनतिचार इति 13 / क्षणलवग्रहणं कालोपलक्षणम्, क्षणलवादिषु संवेगभावनाध्यानासेवनतश्च बध्यते 14 / तथा तपस्त्यागयोर्बध्यते, यो हि यथाशक्त्या तपः आसेवते त्यागं च यतिजने विधिना करोति 16 / व्यावृतभावो वैयावृत्त्यम्, तच्च दशधा, तस्मिन्सति बध्यते 17 / समाधिः- गुर्वादीनां कार्यकरणेन स्वस्थतापादनं समाधौ च सति बध्यते 18 / तथा अपूर्वज्ञानग्रहणे सति श्रुतभक्तिः श्रुतबहुमानः, स च विवक्षितकर्मबन्धकारणमिति 19 / तथा प्रवचनप्रभावनता च, सा च यथाशक्त्या मार्गदेशनेति 20 एवमेभिः कारणैः अनन्तरोक्तैः तीर्थकरत्वं लभते जीव इति गाथात्रयार्थः॥ 179-180-181 // नि०-पुरिमेण पच्छिमेण य एए सव्वेऽविफासिया ठाणा ।मज्झिमएहिँ जिणेहिं एक्कं दो तिण्णि सव्वे वा // 18 // पुरिमेण पश्चिमेन च एतानि- अनन्तरोक्तानि सर्वाणि स्पृष्टानि स्थानानि, मध्यमैर्जिनैः एक द्वे त्रीणि सर्वाणि चेति गाथार्थः॥ 0.3 उपोद्धातनियुक्तिः, 0.3.2 |द्वितीयद्वारम्, वीरजिनादिवक्तव्यता:। | नियुक्तिः |182-183 | आद्यान्तयोः |सर्वाणि, मध्यमानामनियतानि अग्लान्या | वेदनम्, अर्वाक् तृतीये | नरत्वादी बन्धः / 182 // नि०- आह-तंच कहं वेइज्जइ? अगिलाए धम्मदेसणाईहिम् / बज्झइतं तु भगवओ तइयभवोसक्कइत्ताणं // 183 // तच्चतीर्थकरनामगोत्रं कर्म कथं वेद्यत इति, अग्लान्या धर्मदेशनादिभिः, बध्यते तत्तु भगवतो यो भवस्तस्मात् तृतीयं भवमवसl, अथवा बध्यते तत्तु भगवतस्तृतीयं भवं प्राप्य, ओसक्कइत्ताणंति-तत्स्थितिं संसारंवाऽवसर्येति, तस्य पत्कृष्टा सागरोपमकोटीकोटिर्बन्धस्थितिः, तच्च प्रारम्भबन्धसमयादारभ्य सततमुपचिनोति, यावदपूर्वकरणसंख्येयभागैरिति, केवलिकाले तु तस्योदय 0 यथाशक्ति (स्यात् ) 10 करणद्वारेण O करणम् / // 211 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy