SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ 0.3 उपोद्धात नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 20 // यदुक्तं शेषा तु दण्डनीतिर्माणवकनिधेर्भवति भरतस्य सेयं- परिभाषणा तु प्रथमा, मण्डलीबन्धश्च भवति द्वितीया तु, चारकः छविच्छेदश्च भरतस्य चतुर्विधा नीतिः, तत्र परिभाषणं परिभाषा- कोपाविष्करणेन मा यास्यसीत्यपराधिनोऽभिधानम्, तथा मण्डलीबन्धः- नास्मात्प्रदेशाद् गन्तव्यम्, चारको- बन्धनगृहम्, छविच्छेदः- हस्तपादनासिकादिच्छेद इति, इयं भरतस्य चतुर्विधा दण्डनीतिरिति / अन्ये त्वेवं प्रतिपादयन्ति- किल परिभाषणामण्डलिबन्धौ ऋषभनाथेनैवोत्पादिताविति, चारकच्छविच्छेदौ तु माणवकनिधेरुत्पन्नौ इति, भरतस्य-चक्रवर्त्तिन एवं चतुर्विधा नीतिरिति गाथार्थः // 3 // अथ कोऽयं भरत इत्याह- ऋषभनाथपुत्रः, अथ कोऽयं ऋषभनाथ इति तद्वक्तव्यताऽभिधित्सयाऽऽह- नाभी गाहा। अथवा प्रतिपादितः कुलकरवंशः, इदानीं प्राक्सूचितेक्ष्वाकुवंशः प्रतिपाद्यते-सच ऋषभनाथप्रभव इत्यतस्तद्वक्तव्यताऽभिधित्सयाऽऽह नि०- नाभी विणीअभूमी मरुदेवी उत्तरा य साढाय। राया यवहरणाहो विमाणसव्वट्ठसिद्धाओ॥१७॥ इयं हि नियुक्तिगाथा प्रभूतार्थप्रतिपादिका, अस्यां च प्रतिपदं क्रियाऽध्याहारः कार्यः, स चेत्थं- नाभिरिति नाभिर्नाम कुलकरो बभूव, विनीता भूमिरिति- तस्य विनीताभूमौ प्रायः अवस्थानमासीद्, मरुदेवीति तस्य भार्या, राजा च प्राग्भवे वैरनाभः सन् प्रव्रज्यां गृहीत्वा तीर्थकरनामगोत्रं कर्म बद्धा मृत्वा सर्वार्थसिद्धिमवाप्य ततस्तस्याःमरुदेव्याः तस्यां विनीतभूमौन सर्वार्थसिद्धाद्विमानादवतीर्य ऋषभनाथः संजातः, तस्योत्तराषाढानक्षत्रमासीत् इति गाथार्थः / / 170 // इदानीं यः प्राग्भवे वैरनाभः यथा च तेन सम्यक्त्वमवाप्तं यावतो वा भवान् अवाप्तसम्यक्त्वः संसारं पर्यटितः यथा च तेन तीर्थकरनामगोत्रं कर्म बद्धमित्यमुमर्थमभिधित्सुराह 0 प्रतिपादम्। 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। भाष्य:३ नियुक्ति: 169 मानवकाइण्डनीतिः, आहार ऋषभस्य, भरतस्य परिभाषणाद्या (4) नीतिः नियुक्ति: 170 ऋषभवक्तव्यतासूचा। // 202
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy