________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 200 // यद्यस्यायुष्कं खलु तद् दशभागान् समं विभज्य मध्यमाष्टत्रिभागे कुलकरकालं विजानीहीति गाथार्थः // 163 // अमुमेवार्थं प्रचिकटयिषुराह नि०- पढमो य कुमारत्ते भागो चरमो य वुड्डभावंमि / ते पयणुपिज्जदोसा सव्वे देवेसु उववण्णा // 164 // तेषां दशानां भागानां प्रथमः कुमारत्वे गृह्यते, भागः चरमश्च वृद्धभाग इति, शेषा मध्यमा अष्टौ भागाः कुलकरभागा इति, अत एवोक्तं मध्यमाष्टत्रिभागे इति, मध्यमाश्च ते अष्टौ च मध्यमाष्टौ त एव च त्रिभागस्तस्मिन् कुलकरकालं विजानीहि, गतं भागद्वारम्, उपपातद्वारमुच्यते- ते प्रतनुप्रेमद्वेषाः, प्रेम रागे वर्त्तते, द्वेषस्तु प्रसिद्ध एव, सर्वे विमलवाहनादयो देवेषु उपपन्ना इति गाथार्थः // 164 // न ज्ञायते केषु देवेषु उपपन्ना इति, अत आह नि०-दो चेव सुवण्णेसुंउदहिकुमारेसु हुंति दो चेव ।दो दीवकुमारेसुंएगो नागेसु उववण्णो॥१६५॥ | द्वावेव सुपर्णेषु देवेषु उदधिकुमारेषु भवतः द्वावेव द्वौ द्वीपकुमारेषु एको नागेषु उपपन्नः, यथासंख्यमयं विमलवाहनादीनामुपपात इति गाथार्थः॥१६५॥ इदानीं तत्स्त्रीणां हस्तिनां चोपपातमभिधित्सुराह नि०- हत्थी छञ्चित्थीओनागकुमारेसु हुंति उववण्णा ।एगा सिद्धिं पत्ता मरुदेवी नाभिणो पत्ती॥१६६ // हस्तिनः षट् स्त्रियश्चन्द्रयशाद्या नागकुमारेषु भवन्ति उपपन्नाः, अन्ये तु प्रतिपादयन्ति- एक एव हस्ती षट् स्त्रियो नागेषु उपपन्नाः, शेषैर्नाधिकार इति, एका सप्तमी सिद्धि प्राप्ता मरुदेवी नाभेः पत्नीति गाथार्थः॥ 166 // उक्तमुपपातद्वारम्, अधुना नीतिद्वारप्रतिपादनायाह भाव। 0 उदयः। 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 155-168 कुलकराणा नामप्रमाणसंहननवर्णस्त्रीसंस्थानोच्चत्ववर्णायु:स्त्यायुःकुलकरत्कालदेवत्वतत्स्त्रीहस्त्युपपातनीतयः। 200 //