SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ तावद्य श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 199 // वन्नाभेः असंख्येयानि पूर्वाणि / इदं पुनरपव्याख्यानम्, कुतः?, पञ्चानामसंख्येयभागानां पल्योपमचत्वारिंशतमभागानुपपत्तेः, कथं?, पल्योपमं विंशतिभागाः क्रियते, तदष्टभागे कुलकरोत्पत्तिः, प्रथमस्य दशभाग आयुः, शेषाणां पञ्चानामर्धरूपाच्चत्वारिंशत्तमभागाद् असंख्यातोऽसंख्यातो भाग आयुः तथाऽप्यर्धं किञ्चिन्यूनं चत्वारिंशत्तमो भागोऽवशिष्यते, यतः कृतविंशतिभागपल्योपमस्य अष्टभागे अष्टभागे इदं भवति, ततोऽपि दशभागे द्वौ जातो, गताः असंख्याताः पञ्चभागाः, अर्धाद् यदधु किञ्चिन्यूनं स चत्वारिंशत्तमो भाग इति, उक्तं च- पलिओवमट्ठभागे सेसंमि उ कुलगरुप्पत्ती (गाथा 150), तत्रापि प्रथमस्य दशमभाग आयुष्कमुक्तम्, तस्मॅिश्चापगते विंशतितमभागद्वयस्य व्यपगमाच्छेषश्चत्वारिंशद्भागोऽवतिष्ठते, स च संख्येयतमः, ततश्च कालो न गच्छति, आह-अत एव नाभेरसंख्येयानि पूर्वाणि आयुष्कमिष्टम्, उच्यते, इष्टमिदम्, अयुक्तं चैतत्, मरुदेव्याः संख्येयवर्षायुष्कत्वात्, न हि केवलज्ञानमसंख्येयवर्षायुषां भवतीति, ततः किमिति चेद्, उच्यते, ततश्च नाभेरपि संख्येयवर्षायुष्कत्वम् // 161 // यत आह नि०-जंचेव आउयं कुलगराण तं चेव होइ तासिंपि।जं पढमगस्स आउंतावइयं चेव हत्थिस्स // 162 // यदेव आयुष्कं कुलकराणां तदेव भवति तासामपि-कुलकराङ्गनानाम्, संख्यासाम्याच्च तदेवेत्यभिधीयते, तथा यत्तु प्रथमस्यायुः कुलकरस्य, तावदेव भवति हस्तिनः, एवं शेषकुलकरहस्तिनामपि कुलकरतुल्यं द्रष्टव्यमिति गाथार्थः॥१६२॥ इदानीं भागद्वारंकः कस्य सर्वायुष्कात् कुलकरभाग इतिनि०-जंजस्स आउयं खलुतं दसभागे समं विभइऊणं / मज्झिल्लट्ठतिभागे कुलगरकालं वियाणाहि // 163 // तिम० / ००पमविम्। 0 क्रियन्ते। 0 जातौ। ७०ष्ठति। 0 मिष्ट / 0 भागो। 0 ०इएणम् / 0.3 उपोद्घातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 155-168 कुलकराणां नामप्रमाण|संहननवर्णस्त्री| संस्थानोच्चत्ववर्णायु:स्त्र्यायुःकुलकरत्कालदेवत्वतत्स्त्रीहस्त्युपपातनातय // 199 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy