________________ 0.3 उपोद्घात नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 193 // सार्थाद्रष्टाँस्तत्र दृष्टवान्, दानमनपानस्य, नयनं पथि अनुकम्पया गुरोः कथनं सम्यक्त्वं प्राप्तः मृत्वा सौधर्म उपपन्नः पल्योपमायुः सुरो महर्द्धिक इति गाथाद्वयार्थः। नि०- लखूण य सम्मत्तं अणुकंपाए उ सो सुविहियाणं / भासुरवरबोंदिधरो देवो वेमाणिओ जाओ॥१४७॥ लब्ध्वा च सम्यक्त्वं अनुकम्पयाऽसौ सुविहितेभ्यः भास्वरां- दीप्तिमती वरां- प्रधानां बोदिं तनुं धारयतीति समासः, वैमानिको जात इति नियुक्तिगाथार्थः // 147 // तथा च नि०- चइऊण देवलोगा इह चेव य भारहंमि वासंमि / इक्खागकुले जाओ उसभसुअसुओ मरीइत्ति // 148 // ततः स्वायुष्कक्षये सति च्युत्वा देवलोकादिहैव भारते वर्षे इक्ष्वाकुकुले जातः उत्पन्नः ऋषभसुतसुतो मरीचिः सामान्येन ऋषभपौत्र इति गाथार्थः॥१४८॥ यतश्चैवमतः नि०- इक्खागकुले जाओ इक्खागकुलस्स होइ उप्पत्ती / कुलगरवंसेऽईए भरहस्स सुओ मरीइत्ति // 149 // इक्ष्वाकूणां कुलं इक्ष्वाकुकुलं तस्मिन्, जातः उत्पन्नः, भरतस्य सुतो मरीचिरिति योगः, तत्र सामान्य- ऋषभपौत्रत्वाभिधाने सति इदं विशेषाभिधानमदुष्टमेव, सच कुलकरवंशेऽतीते जातः, तत्र कुलकरा वक्ष्यमाणलक्षणास्तेषांवंशः कुलकरवंशः प्रवाह इति समासः, तस्मिन्नतीते- अतिक्रान्ते इति, यतश्चैवमत इक्ष्वाकुकुलस्य भवति उत्पत्तिः, वाच्येति वाक्यशेषः, इत्ययं गाथार्थः॥१४९॥ तत्र कुलकरवंशेऽतीत इत्युक्तम्, अतः प्रथमं कुलकराणामेवोत्पत्तिः प्रतिपाद्यते, यत्र यस्मिन्काले क्षेत्रे च तत्प्रभवस्तन्निदर्शनाय चेदमाह- (ग्रन्थाग्रं 3000) पथि नयनम् / ॐ गाथार्थः। 0 सो। 0 ०स्तेषां वंशः प्रवाहः। 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। | नियुक्तिः 147-148 | साध्वनुकम्पया सम्यक्त्वं, देवत्वं, भरते मरीचिः / नियुक्ति: 149 कुलकरवंशेक्ष्वाकुकुलाधिकाराः। // 193 //