________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 190 // 0.3 उपोद्घातनियुक्तिः, 0.3.1 प्रथमद्वारम्, उद्देश्यनिर्देशादीनिः। नियुक्ति: 145 निर्गमनिक्षेपाः स्त्रीरूप एवासौ, निर्देश्यनिर्देशकयोः समानलिङ्गतैव, एवं सर्वत्र योज्यम्, असमानलिङ्गनिर्देष्टाऽस्य अवस्त्वेव, यदा पुमान् पुमांसं स्त्रियं चाहेति, कुतः?, तस्य पुरुषयोषिद्विज्ञानोपयोगभेदाभेदविकल्पद्वारेण पुरुषयोषिदापत्तेः, अन्यथा वस्त्वभावप्रसङ्गात्, तस्मादुपयुक्तो यमर्थमाह स तद्विज्ञानानन्यत्वात्तन्मय एव, तन्मयत्वाच्च तत्समानलिङ्गनिर्देशः, ततश्च सामायिकवक्ता तदुपयोगानन्यत्वात् सामायिकं प्रतिपादयन्नात्मानमेवाह यतः तस्मात्तत्समानलिङ्गाभिधान एवासी, रूढितश्च सामायिकार्थरूपस्य नपुंसकत्वात्स्त्रियाः पुंसो नपुंसकस्य वा प्रतिपादयतः सामायिकं नपुंसकलिङ्गनिर्देश एवेति गाथासमासार्थः। व्यासार्थस्तु विशेषविवरणादवगन्तव्य इति। सर्वनयमतान्यपि चामूनि पृथग्विपरीतविषयत्वात् न प्रमाणम्, समुदितानि त्वन्तर्बाह्यनिमित्तसामग्रीमयत्वात् प्रमाणमिति अलं विस्तरेण, गमनिकामात्रप्रधानत्वात् प्रस्तुतप्रयासस्य / / 144 // इदानीं निर्गमविशेषस्वरूपप्रतिपादनायाह नि०- नाम ठवणा दविए खित्ते काले तहेव भावे / एसो उ निग्गमस्सा णिक्खेवो छव्विहो होइ // 15 // नामस्थापने पूर्ववत्, द्रव्यनिर्गम:- आगमनोआगमज्ञशरीरेतरव्यतिरिक्तः, स च त्रिधा सचित्ताचित्तमिश्रभेदभिन्नः, तत्र सचित्तात्सचित्तस्य यथा पृथिव्या अङ्करस्य, सचित्तान्मिश्रस्य यथा- भूमेः पतङ्गस्य, सचित्तादचित्तस्य यथा- भूमेर्बाष्पस्य, तथा मिश्रात्सचित्तस्य यथा-देहात्कृमिकस्य, मिश्रान्मिश्रस्य यथा-स्त्रीदेहाद्गर्भस्य, मिश्रादचित्तस्य यथा- देहाविष्ठायाः, अचित्तात्सचित्तस्य यथा- काष्ठात्कृमिकस्य, अचित्तान्मिश्रस्य यथा - काष्ठाद् घुणस्य, अचित्तादचित्तस्य यथा-काष्ठाद् घूणचूर्णस्य / अथवा द्रव्यात् द्रव्यस्य द्रव्यात् द्रव्याणां द्रव्येभ्यो द्रव्यस्य द्रव्येभ्यो द्रव्याणामिति, तत्र द्रव्याद् द्रव्यस्य यथा® संयोज्यम्। * ति सामा० / 0 द्रव्यस्य द्रव्याद्वा। ७०रिक्तः सचित्ता०। 7 पक्षस्य अचित्तत्वात्। (c) उष्णतायाः। ॐ केशयुतत्वात् एवमग्रेऽपि / // 190 //