________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 189 // षड्जीवनिकाया निर्देश्या इति, एवमाचारक्रियाऽभिधायकत्वादाचार इत्यादि, तथा निर्देशकवशात् जिनवचनं कापिलीयं 0.3 नन्दसंहितेत्येवमादि, एवं सामायिकमर्थरूपं रूढितो नपुंसकमितिकृत्वा नैगमस्य निर्देश्यवशान्नपुंसकनिर्देश एव, तथा उपोद्धात नियुक्तिः, सामायिकवतः स्त्रीपुन्नपुंसकलिङ्गत्वात् तत्परिणामानन्यत्वाच्च सामायिकार्थरूपस्य स्त्रीपुंनपुंसकलिङ्गत्वाविरोधमपि मन्यते, 0.3.1 तथा निर्देष्टुस्त्रिलिङ्गसंभवात् निर्देशकवशादपि त्रिलिङ्गतामनुमन्यते नैगमः। आह- द्विविधमपि नैगमनयः इत्येतावत्युक्ते प्रथमद्वारम्, निर्देश्यवशात् निर्देशकवशाच्च निर्देशमिच्छतीति क्रियाऽध्याहारः कुतोऽवसीयते इति, उच्यते, यत आह-निर्दिष्टं वस्त्वङ्गीकृत्य, उद्देश्य | निर्देशादीनिः। संग्रहो व्यवहारः, चशब्दस्य व्यवहितः सम्बन्धो, निर्देशमिच्छतीति वाक्यशेषः अत्र भावना- वचनं ह्यर्थप्रकाशकमेवोपजायते, | नियुक्ति:१४४ प्रदीपवत्, यथा हि प्रदीपः प्रकाश्यं प्रकाशयन्नेव आत्मरूपं प्रतिपद्यते, एवं ध्वनिरप्यर्थं प्रतिपादयन्नेव, ततस्तत्प्रत्ययोपलब्धेः, | निर्देश्य नयनत्वचालय निर्देशकाभ्यां तस्मानिर्दिष्टवशात् निर्देशप्रवृत्तिरिति, ततश्च सामायिकमर्थरूपं रूढितो नपुंसकमतस्तदधिकृत्य संग्रहो व्यवहारश्च निर्देश- | निर्देशे |नयविचारः। मिच्छतीति, अथवा सामायिकवतः स्त्रीपुंनपुंसकलिङ्गत्वात् तत्परिणामानन्यत्वाच्च सामायिकार्थस्य त्रिलिङ्गतामपि मन्यत इति / तथा निर्देशकसत्त्वमङ्गीकृत्य सामायिकनिर्देशं ऋजुसूत्रो मन्यते, वचनस्य वक्तुरधीनत्वात् तत्पर्यायत्वात् तद्भावभावित्वादिति। ततश्च यदा पुरुषो निर्देष्टा तदा पुंल्लिङ्गता, एवं स्त्रीनपुंसकयोजनाऽपि कार्या, तथा उभयसदृशं निर्देश्यनिर्देशकसदृशम्, समानलिङ्गमेव वस्त्वङ्गीकृत्य, शब्दस्य निर्देशप्रवृत्तिरिति वाक्यशेषः, एतदुक्तं भवति- उपयुक्तो हि निर्देष्टा निर्देश्यादभिन्न एव, तदुपयोगानन्यत्वात्, ततश्च पुंसः पुमांसमभिदधतः पुन्निर्देश एव, एवं स्त्रियाः स्त्रियं प्रतिपादयन्त्याः / / // 189 // स्त्रीनिर्देश एव, एवं नपुंसकस्य नपुंसकमभिदधानस्य नपुंसकनिर्देश एव, यदा तु पुमान् स्त्रियमभिधत्ते, तदा स्त्र्युपयोगानन्यत्वात्