SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 187 // संशयः, तदुच्छित्त्यर्थमुपन्यासाददोषः / आह- नामद्वारे क्षायोपशमिकं सामायिकमुक्तं तत्तदावरणक्षयोपशमाल्लभ्यत इति 0.3 गम्यत एव, अतः कथं लभ्यत इत्यतिरिच्यते, न,क्षयोपशमलाभस्यैवेह शेषाङ्गलाभचिन्तनादिति। एवं यदुपक्रमनिक्षेपद्वार- उपोद्धातद्वयाभिहितमपि पुनः प्रतिपादयति अनुगमद्वारावसरे तदशेषं निर्दिष्टनिक्षिप्तप्रपञ्चव्याख्यानार्थमिति / आह- उपक्रमः प्रायः शास्त्रसमुत्थानार्थ उक्तः, अयमप्युपोद्धातः शास्त्रसमुद्धातप्रयोजन एवेति कोऽनयोर्भेदः?, उच्यते , उपक्रमो ह्युद्देशमात्रनियतः, प्रथमद्वारम्, उद्देश्यतदुद्दिष्टवस्तुप्रबोधनफलस्तु प्रायेणोपोद्धातः, अर्थानुगमत्वात् इत्यलं विस्तरेण, प्रकृतमुच्यते॥१४१॥ तत्रोद्देशद्वारावयवार्थ निर्देशादीनिः। प्रतिपादनायेदमाह नियुक्तिः 142 नि०- नाम ठवणा दविए खेत्ते काले समास उद्देसे / उद्देसुद्देसंमि अभावंमि अहोइ अट्ठमओ॥१४२॥ उद्देश्यतत्र नामोद्देशः- यस्य जीवादेरुद्देश इति नाम क्रियते, नाम्नो वा उद्देशः नामोद्देशः, स्थापनोद्देशः-स्थापनाभिधानं उद्देशन्यासो निर्देशवा, द्रव्ये इति द्रव्यविषय उद्देशो द्रव्योद्देशः, स च आगमनोआगमज्ञशरीरेतरव्यतिरिक्तः द्रव्यस्य द्रव्येण द्रव्ये वा उद्देशो निक्षेपाः (8) तद्विशेषश्च। द्रव्योद्देशः, द्रव्यस्य- द्रव्यमिदमिति, द्रव्येण- द्रव्यपतिरयमिति, द्रव्ये-सिंहासने राजा चूते कोकिल: गिरौ मयूर इति, एवं क्षेत्रविषयोद्देशोऽपिवक्तव्यः, एवं कालविषयोऽपीति, समासः संक्षेपस्तद्विषय उद्देशः समासोद्देशः, सच अङ्गश्रुतस्कन्धाध्ययनेषु द्रष्टव्यः, तत्र अङ्गसमासोद्देशः- अङ्ग अङ्गी तदध्येता तदर्थज्ञ इत्येवमन्यत्रापि योजना कार्या, उद्देशः- अध्ययनविशेषः तस्य उद्देश उद्देशोद्देशः, तद्विषयश्च उद्देश इति, स चोद्देशोद्देशोऽभिधीयते- उद्देशवान् तदध्येता तदर्थज्ञो वेति, भावविषयश्च भवति उद्देशः अष्टमक इति,सचायं-भाव:भावी भावज्ञोवेतिगाथार्थः॥१४२॥अयमेव झुद्देशोऽष्टविधविशिष्टनामसहितो निर्देश इत्यवसेयः, तथा चाह नियुक्तिकारः // 187 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy