SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ 0.3 उपोद्धात नियुक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 186 // 0.3.1 प्रथमद्वारम्, अयं तावद्गाथाद्वयसमुदायार्थः, अवयवार्थं तु प्रतिद्वारं प्रपञ्चेन वक्ष्यामः। अत्र कश्चिदाह- पूर्वमध्ययनं सामायिकं तस्यानुयोगद्वारचतुष्टयमुपन्यस्तम्, अतस्तदुपन्यास एव उद्देशनिर्देशावुक्तौ, तथौघनामनिष्पन्ननिक्षेपद्वये च, अतः पुनरनयोरभिधानमयुक्तमिति, अत्रोच्यते, तत्र हि अत्र द्वारद्वयोक्तयोरनागतग्रहणं द्रष्टव्यम्, अन्यथा तद्हणमन्तरेण द्वारोपन्यासादय एव न स्युः, अथवा द्वारोपन्यासादिविहितयोस्तत्राभिधानमात्रं इह त्वर्थानुगमद्वाराधिकारे विधानतोलक्षणतश्चव्याख्या क्रियत इति / आह- यद्येवं निर्गमो न वक्तव्यः, तस्यागमद्वार एवाभिहितत्वात्, तथा च आत्मागम इत्याधुक्तम्, ततश्च तीर्थकरगणधरेभ्य एव निर्गतमिति गम्यते इति, उच्यते, सत्यं किंतु इह तीर्थकरगणधराणामेव निर्गमोऽभिधीयते, कोऽसौ तीर्थकरो गणधराश्चेति, वक्ष्यते- वर्धमानोगौतमादयश्चेति, यथा च तेभ्यो निर्गतं तथा क्षेत्रकालपुरुषकारणप्रत्ययविशिष्टमित्यतोऽदोष इति / आह- यद्येवंलक्षणं न वक्तव्यम्, उपक्रम एव नामद्वारे क्षायोपशमिकभावेऽवतारितत्वात्, प्रमाणद्वारेच जीवगुणप्रमाणे आगमे इति, उच्यते, तत्र निर्देशमात्रत्वात्, इह तु प्रपञ्चतोऽभिधानाददोषः, अथवा तत्र श्रुतसामायिकस्यैवोक्तम्, इह तु चतुर्णामपिलक्षणाभिधानाददोषः।आह-नयाः प्रमाणद्वार एवोक्ताः किमिहोच्यन्ते?,स्वस्थाने च मूलद्वारे वक्ष्यमाणा एवेति, उच्यते, प्रमाणद्वारोक्ता एवेह व्याख्यायन्ते, अथवा प्रमाणद्वाराधिकारात्तत्र प्रमाणभावमात्रमुक्तम्, इह तुस्वरूपावधारणमवतारो वाऽऽरभ्यते, एते च सर्व एव सामायिकसमुदायार्थमात्रविषयाः प्रमाणोक्ता उपोद्घातोक्ताश्च नयाः सूत्रविनियोगिनः, मूलद्वारोपन्यस्तनयास्तु सूत्रव्याख्योपयोगिन एवेति / आह- प्रमाणद्वारे जीवगुणः सामायिकं ज्ञानं चेति प्रतिपादितमेव, ततश्च किंसामायिकमित्याशङ्कानुपपत्तिः, उच्यते,जीवगुणत्वे ज्ञानत्वे च सत्यपि किं तज्जीव एव आहोस्विद् जीवादन्यदिति एतवारद्व०। 7 ऽभिधानतो। 0 वक्ष्यति। 0 तथा च यथा च। 7 चिन्त्यते। न तु सूत्रविनियोगिनः-100 मेवेति / उद्देश्यनिर्देशादीनिः। नियुक्तिः 140-141 उद्देश्यनिर्देशादीनिः। | (26 उपोद्धात| नियुक्तिद्वाराणि)। // 16 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy