________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 184 // 0.3 | उपोद्धात| नियुक्तिः, 0.3.1 प्रथमद्वारम्, इत्थमाचार्यशिष्यदोषगुणकथनलक्षणो व्याख्यानविधिः प्रतिपादितः, इदानीं कृतमङ्गलोपचारोव्यावर्णितप्रसङ्गविस्तरः प्रदर्शितव्याख्यानविधिरुपोद्धातदर्शनायाह नि०- उद्देसे 1 निद्देसे 2 निग्गमे 3 खित्त 4 काल 5 पुरिसे ६अ। कारण 7 पच्चय 8 लक्खण 9 नए 10 समोआरणा 11 ऽणुमए 12 // 140 // __ नि०- किं 13 कइविहं 14 कस्स 15 कहिं 16 केसु 17 कहं 18 केच्चिरं 19 हवइ कालं / कइ 20 संतर 21 मविरहिअं२२ भवा २३गरिस 24 फासण 25 निरुत्ती 26 // 141 // उद्देशोवक्तव्यः, एवं सर्वेषु क्रिया योज्या, उद्देशन मुद्देशः-सामान्याभिधानं अध्ययनमिति, निर्देशनं निर्देश:- विशेषाभिधानं सामायिकमिति, तथा निर्गमणं निर्गमः, कुतोऽस्य निर्गमणमिति वाच्यम्, क्षेत्रं वक्तव्यं कस्मिन् क्षेत्रे?, कालो वक्तव्यः कस्मिन् काले?, पुरुषश्च वक्तव्यः कुतः पुरुषात्?, कारणं वक्तव्यं किं कारणं गौतमादयः शृण्वन्ति?, तथा प्रत्याययतीति प्रत्ययः स च वक्तव्यः, केन प्रत्ययेन भगवतेदमुपदिष्टं? को वा गणधराणां श्रवण इति, तथा लक्षणं वक्तव्यं श्रद्धानादि, तथा नया-नैगमादयः, तथा तेषामेव समवतरणं वक्तव्यं यत्र संभवति, वक्ष्यति च मूढणइयं सुयं कालियं तु इत्यादि, अनुमतं इति कस्य व्यवहारादेः किमनुमतंसामायिकमिति,वक्ष्यति-तवसंजमो अणुमओ इत्यादि, किंसामायिकं? जीवो गुणपडिवण्णो इत्यादि वक्ष्यति, कतिविधं सामायिकं? सामाइयं च तिविहं सम्मत्त सुयं तहा चरित्तं च इत्यादि प्रतिपादयिष्यते, कस्य सामायिकमिति, O उद्देसे य / ॐ उद्देशः समुद्देशः। O सम्यक्त्वसामायिकादेः। 0 समवतारणं च / 7 संभवन्ति / ॐ मूढनयिकं श्रुतं कालिकं तु / ॐ तपःसंयमोऽनुमतः। (c) जीवो गुणप्रतिपन्नः। ॐ सामायिकं च त्रिविधं सम्यक्त्वं श्रुतं तथा चारित्रं च / ©ष्यति / | उद्देश्यनिर्देशादीनिः। | नियुक्तिः 140-141 | उद्देश्यनिर्देशादीनिः। (26 | उपोद्धातनियुक्तिद्वाराणि)। // 184 //