________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 177 // नि०- कस्सन होही वेसो अनब्भुवगओअनिरुवगारी अ।अप्पच्छंदमईओ पट्टिअओ गंतुकामो अ॥१३७॥ 0.2 उपनि०- विणओणएहिं कयपंजलीहि छंदमणुअत्तमाणेहिं / आराहिओ गुरुजणो सुयं बहुविहं लहुं देइ // 138 // क्रमादिः, नियुक्ति: 137 आह- शिष्यदोषणुणानां विशेषाभिधानं किमर्थं?, उच्यते, कालान्तरेण तस्यैव गुरुत्वभवनात्, अयोग्याय च गुरुपद- शिष्यदोष गुणाः। निबन्धनविधाने तीर्थकराज्ञादिलोपप्रसङ्गात् / कस्य न भविष्यति द्वेष्यः-अप्रीतिकरः, यः किम्भूतः?- न अभ्युपगतः अनभ्युप नियुक्तिः गतः- श्रुतोपसंपदाऽनुपसंपन्न इति भावार्थः, उपसंपन्नोऽपि न सर्व एवाद्वेष्यो भवतीत्यत आह- निरुपकारी च निरुपकर्तुं / 138-139 शिष्यशीलमस्येति निरुपकारी, गुरोरकृत्यकारीत्यर्थः, उपकार्यपि न सर्व एवाद्वेष्य इत्यत आह-आत्मच्छन्दा आत्मायत्तामतिर्यस्य परीक्षायां कार्येषु असावात्मच्छन्दमतिः, स्वाभिप्रायकार्यकारीत्यर्थः, गुर्वायत्तमतिरपिन सर्व एवाद्वेष्यः अत आह- प्रस्थितः संप्रस्थित शैलघनकुटाद्वितीय इति, गन्तुकामश्च गन्तुकामोऽभिधीयते यो हि सदैव गन्तुमना व्यवतिष्ठते, वक्ति च-श्रुतस्कन्धादिपरिसमाप्ताववश्यमहं दयः (14) / यास्यामि, क इहावतिष्ठते इति, अयमयोग्यः शिष्य इति गाथार्थः॥१३७॥ इदानीं दोषपरिज्ञानपूर्वकत्वात् गुणाः प्रतिपाद्यन्ते। विनयः- अभिवन्दनादिलक्षणः तेन अवनताः विनयावनताः तैरित्थंभूतैः सद्भिः, तथा पृच्छादिषु कृताः प्राञ्जलयो यैस्ते / कृतप्राञ्जलयः तैः, तथा छन्दो- गुर्वभिप्रायः तं सूत्रोक्तश्रद्धानसमर्थनकरणकारणादिनाऽनुवर्तयद्भिः आराधितो गुरुजनः, श्रुतं सूत्रार्थोभयरूपं बहुविधं अनेकप्रकारं लघु शीघ्रं ददाति प्रयच्छतीति गाथार्थः॥१३८ // इदानीं प्रकारान्तरेण शिष्यपरीक्षा प्रतिपादयन्नाह // 177 // नि०- सेलघण कुडग चालणि परिपूणग हंस महिस मेसे अ। मसग जलूग बिराली जाहग गो भेरि आभीरी // 139 //