SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ 0.2 उपक्रमादिः, नियुक्ति: 135 भाषकविभाषकव्यक्तिकरेषु काष्ठाधुपमाः (6) / / / 170 // सामिणा भणिअं- एगपत्ती, ताहे मा डज्झिहितित्ति तुरितं णिग्गओ, अभओ णिप्फिडति, सेणिएणं भणिअं- पलीवितं?, सो भणति- आमम् , तुमं किंण पविट्ठो?, भणति- अहं पव्वइस्सामि किं मे अग्गिणा?, पच्छा णेण चिंतिअं-मा छड्डिजिहितित्ति भणितं- ण डज्झत्ति / सेणियस्स चेल्लणाए पुव्विं अणणुओगो पुच्छिए अणुओगो, एवं विवरीए परूविए अणणुओगो जहाभावे परूविए अणुओगो 7 // 134 // इत्थं तावदनुयोगः सप्रतिपक्षः प्रपञ्चेनोक्तः, नियोगोऽपि पूर्वप्रतिपादितस्वरूपमात्रः सोदाहरणोऽनुयोगवदवसेयः, साम्प्रतं प्रागुपन्यस्तभाषादिस्वरूपप्रतिपादनायाह नि०-कढे 1 पुत्थे 2 चित्ते 3 सिरिघरिए 4 पुंड 5 देसिए 6 चेव / भासगविभासए वा वत्तीकरणे अ आहरणा // 135 // तत्र काष्ठ इति काष्ठविषयो दृष्टान्तः, यथा काष्ठे कश्चित् तद्रूपकारः खल्वाकारमात्रं करोति, कश्चित्स्थूलावयवनिष्पत्तिम्, कश्चित् पुनरशेषाङ्गोपाङ्गाद्यवयवनिष्पत्तिमिति, एवं काष्ठकल्पं सामायिकादिसूत्रम्, तत्र भाषकः परिस्थूरमर्थमात्रमभिधत्तेयथा समभावः सामायिकमिति, विभाषकस्तु तस्यैवानेकधाऽर्थमभिधत्ते- यथा समभावः सामायिकम्, समानांवा आय: समायः स एव स्वार्थिकप्रत्ययविधानात्सामायिकमित्यादि, व्यक्तीकरणशीलो व्यक्तिकरः, यः खलु निरवशेषव्युत्पत्त्यतिचारानतिचारफलादिभेदभिन्नमर्थ भाषते स व्यक्तिकर इति, स निश्चयतश्चतुर्दशपूर्वविदेव, इह च भाषकादिस्वरूपव्याख्यानात् भाषादय एव प्रतिपादिता द्रष्टव्याः, कुतः?,भाषादीनांतत्प्रभवत्वात् 1 / इदानीं पुस्तविषयो दृष्टान्तः- यथा पुस्ते कश्चिदा- स्वामिना भणितं- एकपत्नी, तदा मा दाहीति त्वरितं निर्गतः, अभयो निस्सरति, श्रेणिकेन भणितं- प्रदीपितं?, स भणति- आमम्, त्वं किं न प्रविष्टः?, भणतिअहं प्रव्रजिष्यामि किं ममाग्निना? पश्चादनेन चिन्तितं- मा त्याक्षीदिति भणितं- न दग्धेति / श्रेणिकस्य चेल्लनायां पूर्वमननुयोगः पृष्टेऽनुयोगः, एवं विपरीते प्ररूपितेऽननुयोगः यथाभावे प्ररूपिते अनुयोगः। // 170 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy