________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 156 // 0.2 उपक्रमादिः, नियुक्ति: 132 अनुयोगनिक्षेपाः। तत्र द्रव्यतो जीव एकं द्रव्यं क्षेत्रतोऽसंख्येयप्रदेशावगाढः कालतोऽनाद्यपर्यवसितः भावतोऽनन्तज्ञानदर्शनचारित्राचारित्रदेशचारित्रअगुरुलघुपर्यायवान् इति, अजीवद्रव्याणि परमाण्वादीनि, तत्र परमाणुर्द्रव्यत एकं द्रव्यं क्षेत्रत एकप्रदेशावगाढः कालतो जघन्येन समयमेकं द्वौ वा उत्कृष्टतस्तु असंख्येया उत्सर्पिण्यवसर्पिण्यः, भावतस्तु एकरस एकवर्णः द्विस्पर्श एकगन्ध इति, एतेषां चस्वस्थानेऽनन्ता रसादिपर्याया एकगुणतिक्तादिभेदेन द्रष्टव्याः, एवं व्यणुकादीनामप्यनन्ताणुस्कन्धावसानानां स्वरूपं द्रष्टव्यम्, उक्तो द्रव्यानुयोगः, इदानीं द्रव्याणां - सच जीवाजीवभेदभिन्नानां अवसेयः यथा प्रज्ञापनायां समुदितानां जीवानामजीवानां च विचारः, तथा चोक्तं-जीवपज्जवाणं भंते! किं संखेज्जा असंखेज्जा अणंता?, गोयमा! नो संखेज्जा नो असंखेज्जा अणंता, एवं अजीवपज्जवाणं पुच्छा उत्तरं च दट्ठव्वं अलं विस्तरेण / द्रव्येणानुयोगः प्रलेपाक्षादिना, द्रव्यस्तैरेव अक्षादिभिः प्रभूतैरिति, द्रव्ये फलकादौ द्रव्येषु प्रभूतासुनिषद्यासु अवस्थितोऽनुयोगं करोतीति / एवं क्षेत्रानुयोगेऽपि क्षेत्रस्य भरतक्षेत्रादेः / / क्षेत्राणां जम्बूद्वीपादीनां यथा द्वीपसागरप्रज्ञप्त्यामिति, क्षेत्रेण यथा पृथिवीकायादिसंख्याव्याख्यानम्, उक्तं च जंबुद्दीवपमाणं, पुढविजिआणं तु पत्थयं काउं। एवं मविजमाणा हवंति लोगा असंखिज्जा // 1 // क्षेत्रैरनुयोगो यथा बहुहिं दीवसमुद्देहिं पुढविजिआणमित्यादि क्षेत्रे तिर्यग्लोकेऽनुयोगो भरतादौ वा क्षेत्रेषु अनुयोगः अर्धतृतीयेषु द्वीपसमुद्रेषु / कालस्य अनुयोगः समयादिप्ररूपणा, कालानांप्रभूतानांसमयादीनाम्, कालेनानुयोगो यथा-बादरवायुकायिकानां वैक्रियशरीराण्यद्धापल्योपमस्य असंख्यभागमात्रेणापह्रियन्ते, कालैरनुयोगो यथा प्रत्युत्पन्नत्रसकायिका असंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपह्रियन्ते / Oजीवपर्यवा भदन्त! किं संख्येया असंख्येया अनन्ताः?, गौतम ! नो संख्येयाः नो असंख्येया अनन्ताः, एवमजीवपर्यवाणां पृच्छा उत्तरं च द्रष्टव्यम् / ॐ जम्बूद्वीपप्रमाणं पृथ्वीजीवानां तु प्रस्थकं कृत्वा / एवं मीयमाना भवन्ति लोका असंख्येयाः॥ 1 // 0 बहुभिर्वीपसमुद्रैः पृथ्वीजीवानाम् / // 156 //