________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 155 // अर्थ इति तन्त्रम्, तथा ग्रथ्यतेऽनेनास्मादस्मिन्निति वाऽर्थ इति ग्रन्थः, पठनं पाठः पठ्यते वा तदिति पाठः पठ्यते वाऽनेनास्माद 0.2 उपस्मिन्निति वा अभिधेयमिति पाठः, व्यक्तीक्रियत इति भावार्थः, तथा शास्यतेऽनेनास्मादस्मिन्निति वा ज्ञेयमात्मनेति वा क्रमादिः, नियुक्तिः शास्त्रम्, एकाथिकानीति पुनरभिधानं सामान्यविशेषयोः कथञ्चिद्भेदख्यापनार्थमिति गाथार्थः / / 130 / / सूत्रस्यार्थेन / 129-131 अनुयोजनमनुयोगः, अथवा अभिधेयो व्यापारः सूत्रस्य योगः, अनुकूलोऽनुरूपोवा योगोऽनुयोगः, यथा घटशब्देन घटोऽभि- प्रवचन (5) धीयते, तथा नियतो निश्चितो वा योगो नियोगः, यथा घटशब्देन घट एवोच्यते न पटादिरिति, तथा भाषणात् भाषा, व्यक्ती सूत्रा (5) नुयोग (5) करणमित्यर्थः, यथा घटनात् घटः, चेष्टावानर्थो घट इति, विविधा भाषा विभाषा, पर्यायशब्दैः तत्स्वरूपकथनम्, यथा छ कार्थिकानि। घटः कुटः कुम्भ इति, वार्तिकं त्वशेषपर्यायकथनमिति शेषं सुबोधम्, अयं गाथासमुदायार्थः, अवयवार्थ तु प्रतिद्वारं वक्ष्यति, नियुक्ति:१३२ अनुयोगतत्र प्रवचनादीनामविशेषेणैकार्थिकाभिधानप्रक्रमे सति एकाथिकानुयोगादेर्भेदेनोपन्यासान्वाख्यानं अर्थगरीयस्त्वख्या निक्षेपाः। पनार्थम्, उक्तं च- सुत्तधरा अत्थधरो इत्यादि।१३१॥ तत्र अनुयोगाख्यप्रथमद्वारस्वरूपव्याचिख्यासयाऽऽह नि०-णामं ठवणा दविए खित्ते काले य वयण भावे य। एसो अणुओगस्स उणिक्खेवो होइ सत्तविहो // 132 // नाम प्राक् निरूपितम्, तत्र नामानुयोगो- यस्य जीवादेरनुयोग इति नाम क्रियते, नाम्नो वा अनुयोगो नामानुयोगः, नामव्याख्येत्यर्थः, स्थापना अक्षनिक्षेपादिरूपा, तत्र अनुयोगं कुर्वन् कश्चित् स्थाप्यते, स्थापनायामनुयोगः स्थापनानुयोग इति समासः, स्थापना चासौ अनुयोगश्चेति वा, द्रव्ये इति द्रव्यविषयोऽनुयोगो द्रव्यानुयोगः, स च आगमनोआगमज्ञशरीरेतरव्यतिरिक्तः द्रव्यस्य द्रव्याणां द्रव्येण द्रव्यैः द्रव्ये द्रव्येषु वाऽनुयोगो द्रव्यानुयोगः, एवं क्षेत्रादिष्वपि षड्भेदयोजना कार्येति, तत्र द्रव्यानुयोगो द्विविधः- जीवद्रव्यानुयोगः अजीवद्रव्यानुयोगश्च, एकैकः स चतुर्धा- द्रव्यतः क्षेत्रतः कालतो भावतश्च, // 155 //