________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 154 // प्रत्येकमेकार्थिकविभागसद्भावात्, अन्यथा एकार्थिकत्वेसति भेदेनैकार्थिकाभिधानमयुक्तमिति, अत्रोच्यते, यथा हि मुकुल 0.2 उपविकसितयोः पद्मविशेषयोःसंकोचविकासपर्यायभेदेऽपिकमलसामान्यतयाऽभेदः, एवं सूत्रार्थयोरपि प्रवचनापेक्षया परस्पर- क्रमादिः, नियुक्तिः तश्चेति, तथाहि - अविवृतं मुकुलतुल्यं सूत्रम्, तदेव विवृतं प्रबोधितं विकचकल्पमर्थः, प्रवचनं चोभयमपीति, यथा चैषामे 129-131 कार्थिकविभाग उपलभ्यते-कमलमरविन्दं पङ्कजमित्यादि पौकार्थिकानि, तथा कुड्मलं वृन्दंसंकुचितमित्यादि मुकुलैका- प्रवचन (5) सूत्रा (५)र्थिकानि, तथा विकचं फुल्लं विबुद्धमित्यादिविकसितैकार्थिकानि, तथा प्रवचनसूत्रार्थानामपि पद्ममुकुलविकसितकल्पा-3 नुयोगै (5) नामेकार्थिकविभागोऽविरुद्धः / अथवा अन्यथा व्याख्यायते- एकार्थिकानि त्रीण्येवाश्रित्य वक्तव्यानि, प्रवचनमेकार्थगोचरः कार्थिकानि। तथा सूत्रमर्थश्चेति, शेषं पूर्ववत् / आह- द्वारगाथायां यदुक्तं प्रवचनैकार्थिकानि वक्तव्यानि तद्व्याहन्यते, न, सामान्यविशेषरूपत्वात्प्रवचनस्य, सूत्रार्थयोरपि प्रवचनविशेषरूपत्वेन प्रवचनत्वोपपत्तेः / आह- यद्येवं विभागश्चेति द्वारोपन्यासानर्थक्यम्, न, विभागश्चेति किमुक्तं भवति? नाविशेषेणैकार्थिकानि वक्तव्यानि सामान्यविशेषरूपस्यापि प्रवचनस्य- पञ्चदशेति , किं तर्हि?- विभागश्च वक्तव्यः, विशेषगोचराभिधानपर्यायाणां सामान्यगोचराभिधानपर्यायत्वानुपपत्तेः, न हि चूतसहकारादयो वृक्षादिशब्दपर्याया भवन्ति, लोके तथाऽदृष्टत्वाद् इति गाथार्थः॥१२९ // श्रुतस्य धर्मः-स्वभावः श्रुतधर्मः, बोधस्वभावत्वात् श्रुतस्य धर्मो बोधोऽभिधीयते, अथवा जीवपर्यायत्वात् श्रुतस्य श्रुतंच तद्धर्मश्चेति समासः, सुगतिधारणाद्वा श्रुतं धर्मोऽभिधीयते, तीर्थं प्राक्निरूपितशब्दार्थम्, तच्च संघ इत्युक्तम्, इह तु तदुपयोगानन्यत्वात् प्रवचनं तीर्थमुच्यते, तथा मृज्यते- शोध्यते / अनेनात्मेति मार्गः, मार्गणं वा मार्गो, अन्वेषणं शिवस्येति, तथा प्रगतं अभिविधिना जीवादिषु पदार्थेषु वचनं प्रावचनम्, प्रवचनं तु पूर्ववत् / उक्तः प्रवचनविभागः, इदानीं सूत्रविभागोऽभिधीयते- तत्र सूचनात् सूत्रम्, तन्यतेऽनेनास्मादस्मिन्निति वा // 154 //