________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 150 // नि०- साहारणमपजत्तं निद्दानिइंच पयलपयलं च / थीणं खवेइ ताहे अवसेसंजं च अट्ठण्हं // 123 // 0.2 उपगतिश्चानुपूर्वी च गत्यानुपूयॊ दो दो इति द्वे द्वे तन्नामनी, जातिनाम चेत्यस्मात् नामग्रहणं अभिसम्बध्यते, एतदुक्तं भवति क्रमादिः, नियुक्तिः नरकगतिनाम नरकानुपूर्वीनाम च, आनुपूर्वी- वृषभनासिकान्यस्तरसंस्थानीया, यया कर्मपुद्गलसंहत्या विशिष्टं स्थानं 122-123 प्राप्यतेऽसौ, यया वोर्वोत्तमाङ्गाधश्चरणादिरूपो नियमतः शरीरविशेषो भवति साऽऽनुपूर्वीति, तथा तिर्यग्गतिनाम | क्षपकश्रेणिः, मध्यक्षेयाः तिर्यगानुपूर्वीनाम च, एवं गत्यानुपूर्वीनामनी द्वे द्वे , तथा जातिनाम एकेन्द्रियादिजातिनाम यावच्चतुरिन्द्रियाः, एतदुक्तं भवति द्विचरमे एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम एवं शेषयोजनाऽपि कार्येति / आह- एकेन्द्रियाद्यानुपूर्वीनाम कस्मान्नोच्यते, आचार्य निद्राद्याः आह-तस्य तिर्यगानुपूर्वीनामक्षपणप्रतिपादनेनोक्तार्थत्वात्, चः समुच्चये, तथा आतपं इति आतपनाम, यदुदयात् आतपवान् / (27), चरमे ज्ञानावरभवति, उद्योतं इति उद्योतनाम, यदुदयादुद्योतवान् भवति, स्थावराः- पृथिव्यादयः तन्नाम च पूर्ववत्, सूक्ष्म इति सूक्ष्मनाम च, साधारणं इति साधारणनाम, अनन्तवनस्पतिनामेत्यर्थः, अपर्याप्तं इति अपर्याप्तकनाम, तथा निद्रानिद्रा च इत्यादि प्रकटार्थत्वान्न विव्रियते, नवरं स्त्याना चैतन्यऋद्धिर्यस्यां सा स्त्यानर्धिः, स्त्यानयुत्तरकालमवशेषं यदष्टानां कषायाणां तत् क्षपयति, सर्वमिदमन्तर्मुहूर्त्तमात्रेणेति, ततो नपुंसकवेदम्, ततः स्त्रीवेदम्, ततो हास्यादिषट्कम्, ततः पुरुषवेदं च खण्डत्रयं कृत्वा खण्डद्वयं युगपत् क्षपयति, तृतीयखण्डं तु संज्वलनक्रोधे प्रक्षिपति, पुरुषे प्रतिपत्तर्ययं क्रमः, नपुंसकादिप्रतिपत्तरि तु उपशमश्रेणिन्यायो वक्तव्यः, ततः क्रोधादींश्च संज्वलनान् प्रत्येकमन्तर्मुहूर्त्तमात्रकालेनोक्तेनैव न्यायेन क्षपयति, श्रेणिपरि // 150 // समाप्तिकालोऽप्यन्तर्मुहूर्तमेव, अन्तर्मुह नामसंख्येयत्वात्, लोभचरमखण्डं तु संख्येयानि खण्डानि कृत्वा पृथक् पृथक् / कालभेदेन क्षपयति, चरमखण्डं पुनरसंख्येयानि खण्डानि करोति, तान्यपि समये समये एकैकं क्षपयति, इह च क्षीणदर्शन णाद्याः।