________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 149 // इह क्षपकश्रेणिप्रतिपत्ताऽसंयतादीनामन्यतमोऽत्यन्तविशुद्धपरिणामो भवति, स च उत्तमसंहननः, तत्र पूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि प्रतिपद्यते, अपरे तु धर्मध्यानोपगत एवेति, प्रतिपत्तिक्रमश्चायं-प्रथममन्तर्मुहर्तेन अनन्तानुबन्धिनः क्रोधादीन् युगपत्क्षपयति, तदनन्तभागंतु मिथ्यात्वे प्रक्षिप्य ततो मिथ्यात्वं सहैव तदंशेन युगपत्क्षपयति, यथा हि अतिसंभृतो दावानलः खलु अर्धदग्धेन्धन एव इन्धनान्तरमासाद्य उभयमपि दहति, एवमसावपि क्षपकः तीव्रशुभपरिणामत्वात् सावशेषं अन्यत्र प्रक्षिप्य क्षपयति, एवं पुनः सम्यग्मिथ्यात्वंततः सम्यक्त्वमिति, इह च यदि बद्धायुःप्रतिपद्यते अनन्तानुबन्धिक्षयेच व्युपरमति, ततः कदाचित् मिथ्यादर्शनोदयतस्तानपि पुनरुपचिनोति, मिथ्यात्वे तद्बीजसंभवात्, क्षीणमिथ्यात्वस्तु नोपचिनोति, मूलाभावात्, तदवस्थश्चमृतोऽवश्यमेव त्रिदशेषु उत्पद्यते, क्षीणसप्तकोऽपि तदप्रतिपतितपरिणाम इति, प्रतिपतितपरिणामस्तु नानामतित्वात् सर्वगतिभाग् भवति, आह- मिथ्यादर्शनादिक्षये किमसौ अदर्शनो जायते उत नेति, उच्यते, सम्यग्दृष्टिरेवासौ, आह-ननु सम्यग्दर्शनपरिक्षये कुतः सम्यग्दृष्टित्वं?, उच्यते, निर्मदनीकृतकोद्रवकल्पा अपनीतमिथ्यात्वभावा मिथ्यात्वपुद्गला एव सम्यग्दर्शनम्, तत्परिक्षये च तत्त्वश्रद्धानलक्षणपरिणामाप्रतिपातात् प्रत्युत श्लक्ष्णाभ्रपटलापगमे चक्षुर्दर्शनवत् शुद्धतरोपपत्तेरिति अलं प्रपञ्चेन / स च यदि बद्धायुः प्रतिपद्यते ततो नियमात् सप्तके क्षीणे अवतिष्ठत एव, स च सम्यग्दर्शनमशेषमेव क्षपयति, अबद्धायुस्तु अनुपरत एव समस्तां श्रेणिं समापयति इति,सचस्वल्पसम्यग्दर्शनावशेष एव अप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं युगपत् आरभते // 121 // एतेषां च मध्यभागं क्षपयन् एताः सप्तदश प्रकृती: क्षपयति, तत्प्रतिपादकमिदं गाथाद्वयं नि०- गइआणुपुव्वी दो दोजाइनामंच जाव चउरिंदी। आयावं उज्जोयं थावरनामंच सुहमंच॥१२२॥ 0.2 उपक्रमादिः, नियुक्तिः 122-123 क्षपकश्रेणिः, मध्यक्षेयाः द्विचरमे निद्राद्याः (27), चरमे ज्ञानावरणाद्याः। 8 // 149 //