SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 146 // नपुंसक एव प्रारम्भकः ततोऽसौ अनुदीर्णमपि प्रथमं स्त्रीवेदमुपशमयति पश्चात्पुरुषवेदं ततः षट्कं ततो नपुंसकवेदमिति, 0.2 उपपुनः द्वौ द्वौ क्रोधाद्यौ एकान्तरितौ संज्वलनविशेषक्रोधाद्यन्तरितौ सदृशौ तुल्यौ सदृशं युगपदुपशमयति, एतदुक्तं भवति- क्रमादिः, नियुक्ति: 116 अप्रत्याख्यानप्रत्याख्यानावरणक्रोधौ सदृशौ क्रोधत्वेन युगपदुपशमयति, ततः संज्वलनं क्रोधमेकाकिनमेव, ततः अप्रत्या उपशमख्यानप्रत्याख्यानावरणमानौ युगपदेव ततः संज्वलनमानमिति, एवं मायाद्वयं सदृशंपुनःसंज्वलनांमायाम्, एवं लोभद्वयमपि श्रेणिः / पुनः संज्वलनं लोभमिति, तंचोपशमयंस्त्रिधा करोति, द्वौ भागौ युगपदुपशमयति, तृतीयभागसंख्येयानि खण्डानि करोति, तान्यपि पृथक् पृथक् कालभेदेनोपशमयति, पुनः संख्येयखण्डानां चरमखण्डं असंख्येयानि खण्डानि करोति, सूक्ष्मसंपरायस्ततः समये समये एकैकंखण्डं उपशमयतीति, इह च दर्शनसप्तके उपशान्ते निवृत्तिबादरोऽभिधीयते, तत ऊर्ध्वमनिवृत्तिबादरो यावत् सङ्ख्येयान्तिमद्विचरमखण्डम् / आह-संज्वलनादीनांयुक्त इत्थमुपशमः, अनन्तानुबन्धिनांतु दर्शनप्रतिपत्तावेवोपशमितत्वान्न युज्यत इति, उच्यते, दर्शनप्रतिपत्तौ तेषां क्षयोपशमात् इह चोपशमादविरोध इति, आह-क्षयोपशमोपशमयोरेव कः प्रतिविशेषः?, उच्यते, क्षयोपशमो झुदीर्णस्य क्षयः अनुदीर्णस्य च विपाकानुभवापेक्षया उपशमः, प्रदेशानुभवतस्तु / उदयोऽस्त्येव, उपशमे तु प्रदेशानुभवोऽपि नास्तीति, उक्तं च भाष्यकारेण- वेदेइ संतकम्म खओवसमिएसु नाणुभावं सो। उवसंतकसाओ उण वेएइ न संतकमंपि॥१॥आह-संयतस्यानन्तानुबन्धिनामुदयो निषिद्धस्तत् कथमुपशम इति, उच्यते, स ह्यनुभावकर्माङ्गीकृत्य न तु प्रदेशकर्मेति, तथा चोक्तमार्षे- जीवे णं भन्ते! सयंकडं कम्मं वेदेइ?, गोयमा! अत्थेगइअं वेइए 0 वेदयति सत्कर्म क्षायोपशमिकेषु नानुभावं सः। उपशान्तकषायः पुनर्वेदयति न सत्कर्मापि। 1 / 0 जीवो भदन्त! स्वयंकृतं कर्म वेदयति! गौतम! अस्त्येक (किश्चिद्) वेदयति, - // 146 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy