________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ 0.2 उपक्रमादिः, नियुक्ति: 116 उपशमश्रेणिः / // 145 // छद्मस्थवीतरागस्य केवलिनश्च भवति, तत्र च छद्मस्थस्य उपशामकस्य क्षपकस्य वा, केवलिनस्तु सयोगिनोऽयोगिनो वेति, शेष निगदसिद्धम्, नवरं मरणं मरः जरा च मरश्च जरामरौ तौ अविद्यमानौ यस्मिन् तदजरामरमिति गाथार्थः // 115 // तत्रैतेषां पञ्चानां चारित्राणां आद्यं चारित्रत्रयं क्षयोपशमलभ्यं चरमचारित्रद्वयं तूपशमक्षयलभ्यमेव, तत्र तत्कर्मोपशमक्रमप्रदर्शनायाह नि०- अणदंसनपुंसित्थी वेयछक्कं च पुरुसवेयं च / दो दो एगन्तरिए सरिसे सरिसं उवसमेइ // 116 // * अथवा चरमचारित्रद्वयं श्रेण्यन्त विनस्तद्विनिर्गतस्य च भवति, अतः श्रेणिद्वयावसरः, तत्र उभयश्रेणिलाभे चादावुपशम श्रेणिर्भवतीत्यतस्तत्स्वरूपाभिधित्सयैवाह- अणदंसः। तत्रोपशमश्रेणिप्रारम्भको भवत्यप्रमत्तसंयत एव, अन्ये तु प्रतिपादयन्ति- अविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतम इति, श्रेणिपरिसमाप्तौ प्रमत्ताप्रमत्तसंयतानामन्यतमोभवति, स चैवमारभते- अण रणेति दण्डकधातुः अस्याच्प्रत्ययान्तस्य अण इति भवति, शब्दार्थस्तु अणन्तीत्यणाः, अणन्ति- शब्दयन्ति अविकलहेतुत्वेन असातवेद्यं नारकाद्यायुष्कं इत्यणा:- आद्याः क्रोधादयः, अथवा अनन्तानुबन्धिनः क्रोधादयः अनाः, समुदायशब्दानामवयवे वृत्तिदर्शनात् भीमसेनः सेन इति यथा, तत्रासौ प्रतिपत्ता प्रशस्तेष्वध्यवसायस्थानेषु वर्तमानः प्रथम युगपदन्तर्मुहूर्त्तमात्रेण कालेन अनन्तानुबन्धिनः क्रोधादीन् उपशमयति, एवं सर्वत्र युगपदुपशमककालोऽन्तर्मुहूर्त्तप्रमाण एव च द्रष्टव्यः, ततो दर्शनं दर्शस्तम्, दर्शनं त्रिविधं- मिथ्या सम्यग्मिथ्या सम्यग्दर्शनं युगपदेवेति, ततोऽनुदीर्णमपि नपुंसकवेदं युगपदेव यदि पुरुषः प्रारम्भकः, पश्चात्स्त्रीवेदमेककालमेवेति, ततो हास्यादिषट्कं- हास्यरत्यरतिशोकभयजुगुप्साषट्कम्, पुनः पुरुषवेदम् ।अथ स्त्री प्रारम्भिका ततः प्रथमं नपुंसकवेदमुपशमयति पश्चात्पुरुषवेदं ततः षट्कं ततः स्त्रीवेदमिति / अथ // 14 //