SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 143 // 0.2 उपक्रमादिः, नियुक्तिः 114-115 चारित्रभेदाः (५)(कल्पाः 10, परिहार| विशुद्धितपः)। अभिहितमानुषङ्गिकम्, इदानीं प्रकृतमुच्यते- आह- पुरिमपश्चिमतीर्थकरसाधूनामपि यदित्वरं सामायिकं तत्रापि करोमि भदन्त! सामायिकं यावज्जीवं इतीत्वरस्याप्याभवग्रहणात् तस्यैव उपस्थापनायां परित्यागात् कथं न प्रतिज्ञालोप इति, अत्रोच्यतेअतिचाराभावात्, तस्यैव सामान्यतः सावद्ययोगविनिवृत्तिरूपेणावस्थितस्य शुद्ध्यन्तरापादनेन संज्ञामात्रविशेषात् इति। चशब्दो वाक्यालङ्कारे, प्रथमं आद्यं चारित्रमिति, इदानीं छेदोपस्थापनं छेदश्चोपस्थापनं च यस्मिंस्तच्छेदोपस्थापनम्, एतदुक्तं भवति- पूर्वपर्यायस्य छेदो महाव्रतेषु चोपस्थापनमात्मनो यत्र तच्छेदोपस्थापनम्, तच्च सातिचारमनतिचारंच, तत्रानतिचारं यदित्वरसामायिकस्य शिक्षकस्य आरोप्यत इति, तीर्थान्तरसंक्रान्तौ वा, यथा पार्श्वनाथतीर्थात् वर्धमानस्वामितीर्थं संक्रामतः | पञ्चयामधर्मप्रतिपत्ताविति, सातिचारंतुमूलगुणघातिनो यत् पुनव्रतोच्चारणमिति, उक्तं छेदोपस्थापनम्, इदानीं परिहारविशुद्धिकंतत्र परिहरणं परिहारः- तपोविशेषः तेन विशुद्धिर्यस्मिंस्तत्परिहारविशुद्धिकम्, तच्च द्विभेदं-निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानकास्तदासेवकाः तदव्यतिरेकात् तदपि चारित्रं निर्विशमानकमिति, आसेवितविवक्षितचारित्रकायास्तु निर्विष्टकायाः त एव स्वार्थिकप्रत्ययोपादानात् निर्विष्टकायिकाः तदव्यतिरेकाच्चारित्रमपि निर्विष्टकायिकमिति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका भवन्ति, अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च निर्विशमानकानामयं परिहारः- परिहारियाण उ तवो जहण्ण मज्झो तहेव उक्कोसो। सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं / 1 / तत्थ जहण्णो गिम्हे चउत्थे छटुंतु होइ मज्झिमओ। अट्ठममिहमुक्कोसो एत्तो परिहारिकाणां तु तपो जघन्यं मध्यमं तथैवोत्कृष्टम्। शीतोष्णवर्षाकाले भणितं धीरैः प्रत्येकम् / 1 / तत्र जघन्यं ग्रीष्मे चतुर्थः षष्ठस्तु भवति मध्यमकम्। - // 143 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy