________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 142 // प्रसाधकत्वात् असत्त्वाविशेषात् इति, तथा चेत्थंभूतवस्त्रसद्भावेऽपिलोकेऽचेलकत्वव्यपदेशप्रवृत्तिदृश्यते, यथा-काचिदङ्गना 0.2 उपजीर्णवस्त्रपरिधाना अन्याभावे सति तद्भावेऽपि च समर्पितसाटकं कुविन्दं तनिष्पादनमन्थरं प्रति आह- त्वर कोलिक! क्रमादिः, नियुक्ति: नग्निकाऽहमिति 1 / तथा औद्देशिकेऽप्यस्थिता एव, कथं?- इह पुरिमपश्चिमतीर्थकरसाधुं उद्दिश्य कृतमशनादि सर्वेषाम 114-115 कल्पनीयम्, तेषां तु यमुद्दिश्य कृतं तस्यैवाकल्पनीयंन शेषाणामिति 2 / तथा शय्यातरराजपिण्डद्वारं-पिण्डग्रहणमुभयत्र चारित्रभेदाः सम्बध्यते, तत्र शय्यातरपिण्डे स्थिता एव,शय्यातरपिण्डोहि यथा पुरिमपश्चिमतीर्थकरसाधूनां अकल्पनीयः, एवं मध्यमतीर्थ (5) (कल्पा : 10, परिहारकरसाधूनामपि 3 / राजपिण्डे चास्थिताः, कथं!- स हि पुरिमपश्चिमतीर्थकरसाधूनामग्राह्य एव, मध्यमानां तु दोषाभावात् | विशुद्धितप:)। गृह्यते 4 / तथा कृतिकर्म वन्दनमाख्यायते, तत्रापि स्थिताः, कथं? यथा पुरिमश्चिमतीर्थकरसाधूनां प्रभूतकालप्रव्रजिता अपि संयत्यः पूर्वं वन्दनं कुर्वन्ति, एवं तेषामपि, यथा वा क्षुल्लका ज्येष्ठार्याणां कुर्वन्ति, एवं तेषामपि ५।व्रतानि प्राणातिपाता-8 दिनिवृत्तिलक्षणानि तेष्वपि स्थिता एव, यथा पुरिमपश्चिमतीर्थकरसाधवः व्रतानुपालनं कुर्वन्ति, एवं तेऽपीति, आह- तेषांक हि मैथुनविरतिवानि चत्वारि व्रतानि, ततश्च कथं स्थिता इति, उच्यते, तस्यापि परिग्रहेऽन्तर्भावात् स्थिता एव, तथाच नापरिगृहीता योषित् उपभोक्तुं पार्यते ६।तथा ज्येष्ठेति ज्येष्ठपदे स्थिता एव, किन्तु पुरिमपश्चिमतीर्थकरसाधूनां उपस्थापनया ज्येष्ठः, तेषां तु सामायिकारोपणेनेति 7 / तथा प्रतिक्रमणे अस्थिताः, पुरिमपश्चिमसाधूनां नियमेनोभयकालं प्रतिक्रमणम्, तेषां तु अनियमः, दोषाभावे सर्वकालमप्यप्रतिक्रमणमिति 8 / तथा मासपर्युषणाकल्पद्वारं- तत्र मासकल्पेऽप्यस्थिताः, कथं?- पुरिमपश्चिमतीर्थकरसाधूनां नियमतो मासकल्पविहारः, मध्यमतीर्थकरसाधूनां तु दोषाभावे न विद्यते, एवं पर्युषणाकल्पोऽपि वक्तव्यः, एतदुक्तं भवति- तस्मिन्नपि अस्थिता एव 9-10- इति समुदायार्थः, विस्तरार्थस्तु कल्पादवगन्तव्यः / // 142 //