________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 141 // नि०- तत्तोय अहक्खायं खायं सव्वंमि जीवलोगंमि। जंचरिऊण सुविहिआ वच्चंतयरामरं ठाणं॥११५॥ 0.2 उपसामायिक इति समानां- ज्ञानदर्शनचारित्राणां आयः- समायः, समाय एव सामायिकम्, विनयादिपाठात् स्वार्थे ठक्,8 क्रमादिः, | नियुक्तिः आह-समयशब्दस्तत्र पठ्यते, तत्कथं समाये प्रत्ययः?, उच्यते, एकदेशविकृतमनन्यवद्भवती तिन्यायात्, तच्च सावधयोग 114-115 विरतिरूपम्, ततश्च सर्वमप्येतच्चारित्रं अविशेषतः सामायिकम्, छेदादिविशेषैस्तु विशेष्यमाणं अर्थतः शब्दान्तरतश्च नानात्वं- चारित्रभेदाः भजते, तत्र प्रथमं विशेषणाभावात् सामान्यशब्द एवावतिष्ठते सामायिकमिति, तच्च द्विधा- इत्वरं यावत्कथिकं च, तत्र (५)(कल्पाः 10, परिहारस्वल्पकालमित्वरम्, तच्च भरतैरवतेषु प्रथमपश्चिमतीर्थकरतीर्थेषु अनारोपितव्रतस्य शिक्षकस्य विज्ञेयमिति, यावत्कथिकंतु | विशुद्धितप:) यावत्कथा आत्मनः तावत्कालं यावत्कथं यावत्कथमेव यावत्कथिकं आभववर्तीतियावत्, तच्च मध्यमविदेहतीर्थकर-8 तीर्थान्तर्गतसाधूनामवसेयमिति, तेषामुपस्थापनाऽभावात्, अत्र प्रसङ्गतो मध्यमविदेहपुरिमपश्चिमतीर्थकरतीर्थवर्त्तिसाधुस्थितास्थितकल्पः प्रदर्श्यते- तत्र ग्रन्थान्तरे विवक्षितार्थप्रतिपादिकेयं गाथा- आचेलक्कु 1 देसिय 2 सेजायर 3 रायपिंड 4 किइकम्मे 5 / वय 6 जिट्ठ७ पडिक्कमणे 8 मासं 9 पज्जोसवणकप्पो १०॥१॥अस्या गमनिका- चउसु ठिआ छसु अट्ठिआ, केषु चतुर्षु इति, आह- सिज्जायरपिंडे या चाउज्जामे य पुरिसजिट्टे य। किइकम्मस्स य करणे चत्तारि अवट्ठिआ कप्पा // 1 // नास्य चेलं विद्यते इत्यचेलकः तद्भाव: अचेलकत्वं अचेलकत्वे स्थिताः, एतदुक्तं भवति-न वैदेहमध्यमतीर्थकरतीर्थसाधवः पुरिमपश्चिमतीर्थवर्तिसाधुवत् अचेलत्वे स्थिताः, कुतः?- तेषां ऋजुप्रज्ञत्वात् महाधनमूल्यविचित्रादिवस्त्राणामपि परिभोगात्, पुरिमपश्चिमतीर्थकरतीर्थवर्तिसाधूनां तु ऋजुवक्रजडत्वात् महाधनमूल्यादिवस्त्रापरिभोगाजीर्णादिपरिभोगाच्च अचेलकत्वमिति / आह-जीर्णादिवस्त्रसद्भावे, कथमचेलकत्वं?, उच्यते, तेषां जीर्णत्वात् असारत्वात् अल्पत्वात् विशिष्टार्थक्रियाऽ