SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 139 // 0.2 उपक्रमादिः, नियुक्तिः 109-110 प्रथमादिकपायाणामुदये सम्यक्त्वादेरलाभलाभौ। मुदये न प्रत्याख्यानमस्तीत्युक्तम्, नञा प्रतिषिद्धत्वात्, इहापिच आवरणशब्देन प्रत्याख्यानप्रतिषेधात् क एषां प्रतिविशेष इति, उच्यते, तत्र नञ्सर्वनिषेधवचनो वर्त्तते, इह पुनः आङोमर्यादेषदर्थवचनत्वात् ईषन्मर्यादया वाऽऽवृण्वन्तीत्यावरणाः, ततश्च सर्वविरतिनिषेधार्थ एवायं वर्त्तते न देशविरतिनिषेधे खल्वावरणशब्द इति, तथा चाह- देशश्चैकदेशश्च देशैकदेशौ, तत्र देश:- स्थूरप्राणातिपातः, एकदेशः तस्यैव यथादृश्यवनस्पतिकायातिपातः, तयोः विरतिः- निवृत्तिस्ताम्, लभन्ते इति वाक्यशेषः, अत्रापि वाक्यशेषः चारित्रविशेषणे तुशब्दाक्षिप्त एव द्रष्टव्यः, यत आह- चारित्रं इति चर गतिभक्षणयो रिति, अस्य अर्तिलूधूसूखनिसहिचर इत्रः (पा. 3-2-184) इतीत्रप्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनिन्दितमनेन इति चरित्रं क्षयोपशमरूपं तस्य भावश्चारित्रम् , एतदुक्तं भवति- इहान्यजन्मोपात्ताष्टविधकर्मसंचयापचयाय चरणंचारित्रम्, सर्वसावध-8 योगनिवृत्तिरूपा क्रियेत्यर्थः, तस्य लाभश्चारित्रलाभस्तं न तु लभन्ते, तुशब्दाद्देशैकदेशविरतिं तु लभन्त एवेति गाथार्थः॥ 110 // इदानीममुमेवार्थमुपसंहरन्नाह नि०- मूलगुणाणं लंभं न लहइ मूलगुणघाइणं उदए। उदए संजलणाणं न लहइ चरणं अहक्खायं // 111 // मूलभूता गुणा मूलगुणा उत्तरगुणाधारा इत्यर्थः, ते च सम्यक्त्वमहाव्रताणुव्रतरूपास्तेषां मूलगुणानां लाभं न लभते न प्राप्नोति, कदेति आह-मूलगुणान् घातयितुंशीलं येषां ते मूलगुणघातिनः तेषांमूलगुणघातिनां- अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानां द्वादशानां कषायाणामुदये, तथा ईषद् ज्वलनात् संज्वलनाः सपदि परीषहादिसंघातज्वलनाद्वा संज्वलनाः क्रोधादय एव चत्वारः कषायाः तेषां संज्वलनानामुदये न लभते चारश्चरणम्, भावे ल्युट्प्रत्ययः, लब्धं वा त्यजति, किं सर्वं? - नेत्याह- यथैवाख्यातं यथाख्यातं इति अकषायम्, सकषायं तु लभते एवेति // 111 // न च यथाख्यातचारित्र // 139 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy