SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 138 // किं?-नियमेन सम्यक्-अविपरीतं दर्शनं सम्यग्दर्शनं तस्य लाभ:- प्राप्तिः सम्यग्दर्शनलाभः तम्, भवे सिद्धिर्येषां ते भवसिद्धिकाः। 0.2 उपआह- सर्वेषामेव भवे सति सिद्धिर्भवति?, उच्यते, एवमेतत्, किंतु इह प्रकरणात् तद्भवो गृह्यते, तद्भवसिद्धिका अपि न क्रमादिः, नियुक्तिः लभन्ते न प्राप्नुवन्ति, अपिशब्दाद् अभव्यास्तु नैव, अथवा परीतसंसारिणोऽपि नैवेति गाथार्थः / / 108 // 109-110 नि०-बिइयकसायाणुदए अपञ्चक्खाणनामधेजाणं / सम्मइंसणलंभं विरयाविरईन उलहंति // 109 // प्रथमादिकद्वितीया इति देशविरतिलक्षणद्वितीयगुणघातित्वात् क्षपणक्रमाद्वा, कषाया इति कष गतौ इति कषशब्देन कर्माभिधीयते, पायाणामुदये सम्यक्त्वादेरभवो वा, कषस्य आया लाभाः प्राप्तयः कषायाः क्रोधादयः, द्वितीयाश्च ते कषायाश्चेति समासः, तेषां, उदयः इति अस्य || लाभलाभौ। पूर्ववदर्थः, किंविशिष्टानां?- अप्रत्याख्याननामधेयानां न विद्यते देशविरतिसर्वविरतिरूपं प्रत्याख्यानं येषु उदयप्राप्तेषु सत्सुते / अप्रत्याख्यानाः, सर्वनिषेधवचनोऽयं नञ् द्रष्टव्यः, अप्रत्याख्याना एव नामधेयं येषां ते तथाविधाः तेषामुदये सति, किं?-8 सम्यग्दर्शनलाभम्, भव्या लभन्ते इति शेषः, अयंच वाक्यशेषो विरताविरतिविशेषणे तुशब्दसंसूचितो द्रष्टव्यः, तथा चाहविरमणं विरतं तथा न विरतिः अविरतिः विरतं चाविरतिश्च यस्यां निवृत्तौ सा तथोच्यते, देशविरतिरित्यर्थः, तां विरताविरतिं न तु लभन्ते, तुशब्दात् सम्यग्दर्शनं तु लभन्ते इति गाथार्थः // 109 // नि०- तइयकसायाणुदए पच्चक्खाणावरणनामधिज्जाणं / देसिक्कदेसविरइंचरित्तभंन उलहंति // 110 // सर्वविरतिलक्षणतृतीयगुणघातित्वात् क्षपणक्रमाद्वा तृतीयाः, कषायाः पूर्ववत्, तृतीयाश्च ते कषायाश्चेति समासः, कषायाः क्रोधादय एव चत्वारस्तेषां उदय इति पूर्ववत्, किंविशिष्टानां?- आवृण्वन्तीत्यावरणाः, प्रत्याख्यानं सर्वविरतिलक्षणं तस्यावरणाः प्रत्याख्यानावरणाः प्रत्याख्यानावरणा एव नामधेयं येषां ते तथाविधास्तेषाम् / आह-नन्वप्रत्याख्याननामधेयाना // 138 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy