________________ 0.2 उप श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 137 // अनेनैव न्यायेन क्षपकश्रेणीति, इयं च देशविरत्यादिप्राप्तिरेतावत्कालतो देवमनुष्येषु उत्पद्यमानस्य अप्रतिपतितसम्यक्त्वस्य नियमेनोत्कृष्टतो द्रष्टव्येति, अन्यथा अन्यतरश्रेणिरहितसम्यक्त्वादिगुणप्राप्तिरेकभवेनाप्यविरुद्धेति, उक्तं च भाष्यकारेण - क्रमादिः, नियुक्ति: 108 सम्मत्तमि उ लद्धे पलियपुहुत्तेण सावओ होज्जा / चरणोवसमखयाणं सागर संखंतरा हुँति॥१॥ एवं अप्परिवडिए सम्मत्ते देवमणुयजम्मेसु।। प्रथमादिकअण्णतरसेढिवज्जं एगभवेणं च सव्वाइं॥२॥अभिहितं आनुषङ्गिकम्, इदानीं यदुदयात् सम्यक्त्वसामायिकादिलाभो न भवति, षायाणामुदये सम्यक्त्वादेरसंजातो वाऽपैति, तानिहावरणरूपान् कषायान् प्रतिपादयन्नाह-पढमिल्ल० / अथवा यदुक्तं कैवल्यज्ञानलाभो नान्यत्र कषायक्षयात् लाभलाभौ। इति, इदानीं ते कषायाः के? कियन्तः? को वा कस्य सम्यक्त्वादिसामायिकस्यावरणं? को वा खलु उपशमनादिक्रमः कस्य इत्यमुमर्थमभिधित्सुराह नि०- पढमिल्लयाण उदए नियमा संजोयणा कसायाणं। सम्मइंसणलंभं भवसिद्धीयाविन लहंति // 108 // उत्तरगाथा अपि प्रायः कियत्योऽपि उक्तसम्बन्धा एवेति, तत्र व्याख्या- प्रथमा एव प्रथमिल्लकाः, देशीवचनतो जहा पढमिल्ला एत्थ घरा इत्यादि, तेषां प्रथमिल्लकानां- अनन्तानुबन्धिनांक्रोधादीनामित्युक्तं भवति, प्राथम्यं चैषां सम्यक्त्वाख्यप्रथमगुणविघातित्वात् क्षपणक्रमाद्वेति, उदयः- उदीरणावलिकागततत्पुद्गलोद्भूतसामर्थ्यता तस्मिन् उदये, किं?- नियमात् नियमेनेति, अस्य व्यवहितपदेन सार्धं सम्बन्धः, तंच दर्शयिष्यामः, इदानीं पुनः प्रथमिल्लुका एव विशिष्यन्ते- किंविशिष्टानां / प्रथमिल्लकानां?- कर्मणा तत्फलभूतेन संसारेण वा संयोजयन्तीति संयोजनाः, संयोजनाच ते कषायाश्चेति विग्रहः तेषामुदये, // 137 // ®सम्यक्त्वे तु लब्धे पल्योपमपृथक्त्वेन श्रावको भवेत् / चरणोपशमक्षयेषु, सागराः संख्येया अन्तरं भवति // 1 // एवमप्रतिपतिते सम्यक्त्वे देवमनुष्यजन्मसु / अन्यतरश्रेणिवर्ज एकभवेनापि सर्वाणि // 2 // (विशे० 1222-1223) / ॐ श्रुतसम्यक्त्वादिप्राप्तिहेतुतया प्रसङ्गः। 0 तदिदानी क०। 0 पशमादि० /