SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 0.2 उपक्रमादिः, नियुक्ति: 107 सामायिकलाभेपल्यादि दृष्टान्ताः (9) / श्रीआवश्यक कश्चित्परोपदेशात्, अपरस्तु प्रतीपगामी ग्रन्थिकसत्त्वो वा नैव लभते इति 5 / इदानीं ज्वरदृष्टान्तो- यथा हि ज्वरः कश्चित् . नियुक्ति स्वयमेवापैति कश्चिद्भेषजोपयोगेन कश्चित्तु नैवापैति, एवमिह मिथ्यादर्शनमहाज्वरोऽपि कश्चित्स्वयमेवापैति कश्चित् भाष्यश्रीहारि० अर्हद्वचनभेषजोपयोगात् अपरस्तु तदोषधोपयोगेऽपि नापति, करणत्रययोजना स्वयमेव कार्या 6 / कोद्रवदृष्टान्तः- यथा इह वृत्तियुतम् केषाञ्चित् कोद्रवाणां मदनभावः स्वयमेव कालान्तरतोऽपैति तथा केषाञ्चित् गोमयादिपरिकर्मतः तथा परेषां नापति, एवं भाग-१ मिथ्यादर्शनभावोऽपि कश्चित्स्वयमेवापैति कश्चिदुपदेशपरिकर्मणा अपरस्तु नापति, इह च भावार्थ:- स हि जीवोऽपूर्वकरणेन // 136 // मदनार्धशुद्धशुद्धकोद्रवानिव दर्शनं मिथ्यादर्शनसम्यग्मिथ्यादर्शनसम्यग्दर्शनभेदेन त्रिधा विभजति, ततोऽनिवर्त्तिकरणविशेषात्सम्यक्त्वं प्राप्नोति, एवं करणत्रययोगवतो भव्यस्य सम्यग्दर्शनप्राप्तिः, अभव्यस्यापि कस्यचिद् यथाप्रवृत्तकरणतो ग्रन्थिमासाद्य अर्हदादिविभूतिसंदर्शनतः प्रयोजनान्तरतो वा प्रवर्त्तमानस्य श्रुतसामायिकलाभो भवति, न शेषलाभ इति 7 / इदानीं जलदृष्टान्तः- यथा हि जलं मलिनार्धशुद्धशुद्धभेदेन त्रिधा भवति, एवं दर्शनमपि मिथ्यादर्शनादिभेदेन अपूर्वकरण-तस्त्रिधा करोतीति, भावार्थस्तु पूर्ववदेव 8 / वस्त्रदृष्टान्तेऽप्यायोजनीयमिति गाथार्थः 9 // 107 / / प्रासङ्गिकमुच्यते- एवं सम्यग्दर्शनलाभोत्तरकालमवशेषकर्मणः पल्योपमपृथक्त्वमितिस्थितिपरिक्षयोत्तरकालं देशविरतिरवाप्यते, पुनः शेषायाः संख्येयेषु सागरोपमेषु स्थितेरपगतेषु सर्वविरतिरिति, पुनरवशेषस्थितेरपि संख्येयेष्वेव सागरोपमेषु क्षीणेषु उपशामकश्रेणी, ®अत्र पूर्वत्र च, परं न दृष्टान्तानुक्रमेण किंतु यथास्वरूपम्। दर्शनमोहनीयपुद्गलरूपम्, मिथ्यात्वस्य सत्त्वेऽपि भागत्रयं शुद्धत्वावस्थानत आश्रित्य मिथ्यात्वस्य / POआदिना गणभृदादिविभूत्यादिग्रहः, तत्त्वं तु सत्कारकारणमेतदिति बुद्धौ। 0 तिदर्शन। 0 देवत्वनरेन्द्रत्वसौभाग्यरूपबलावाप्त्यादिग्रहः / 0 नेदम् / 7 देवभवेऽधिकस्थितावपि तावत्याः स्थितेः सद्भावादुपचयेन न देशविरतिप्रसङ्गः इति प्रथमपञ्चाशकवृत्तौ। (c) उपशमश्रे०। // 136 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy