________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 134 // (9) / प्रचुरं प्रचुरतरं त्वादत्ते, तच्च कालान्तरेण क्षीयते, एवं कर्मधान्यपल्ये जीवोऽनाभोगतः यथाप्रवृत्तकरणेन स्वल्पतरमुपचिन्वन् 0.2 उपबहुतरमपचिन्वंश्च ग्रन्थिमासादयति, पुनस्तमतिक्रामतोऽपूर्वकरणं भवति, सम्यग्दर्शनलाभाभिमुखस्य तु अनिवर्तीति, एष। क्रमादिः, नियुक्ति: 107 पल्यकदृष्टान्तः। आह- अयं दृष्टान्त एवानुपपन्नः, यतः संसारिणो योगवतः प्रतिसमयं कर्मणश्चयापचयावुक्तौ, तत्र चासंय सामायिकतस्य बहुतरस्य चयः अल्पतरस्य चापचयः, यत आगमः- पल्ले महइमहल्ले कुंभं पक्खिवइ सोहए णालिं / असंजए अविरए बहु लाभे पल्यादि बंधइ निज्जरइ थोवं॥१॥ पल्ले महतिमहल्ले कुंभ सोहेइ पक्खिवे णालिं। जे संजए पमत्ते बहु निज्जरइ बंधई थोवं॥२॥ पल्ले महइमहल्ले पावर पल हमलल दृष्टान्ताः कुंभंसोहेइ पक्खिवेन किंचि। जे संजए अपमत्ते बहु निज्जरे बंधइन किंची॥३॥ततश्च एवं पूर्वमसंयतस्य मिथ्यादृष्टेः प्रभूततरबन्धकस्य कुतो ग्रन्थिदेशप्राप्तिरिति, अत्रोच्यते, ननु मुग्ध! बाहुल्यमङ्गीकृत्य इदमुक्तं यद्- असंयतस्य बहुतरस्योपचयोऽल्पतरस्य चापचयः, अन्यथाऽनवरतप्रभूततरबन्धाङ्गीकरणे खल्वपचयानवस्थानात् अशेषकर्मपुद्गलानामेव ग्रहणं प्राप्नोति, अनिष्टं चैतत्, सम्यग्दर्शनादिप्राप्तिश्च अनुभवसिद्धा विरुध्यते, तस्मात् प्रायोवृत्तिगोचरमिदंपल्येत्यादि द्रष्टव्यमिति 1 / कथं पुनरनाभोगतः प्रचुरतरकर्मक्षय इति आह-गिरेः सरिद गिरिसरित् तस्यां उपलाः- पाषाणाः गिरिसरिदुपलाः तद्वत्, एतदुक्तं भवतियथा गिरिसरिदुपलाः परस्परसन्निघर्षेण उपयोगशून्या अपि विचित्राकृतयो जायन्ते, एवं यथाप्रवृत्तिकरणतो जीवास्तथाविधकर्मस्थितिविचित्ररूपाश्चित्रा इति 2 / पिपीलिकाः- कीटिकाः, यथा तासां क्षितौ स्वभावगमनं भवति 1 तथा / Oअल्पतर०। 7 पल्य०। (c) एवमुक्ते सत्याह। 0 पल्येऽतिमहति कुम्भं प्रक्षिपति शोधयति नालिकाम् / असंयतोऽविरतः बहु बध्नाति निर्जरयति स्तोकम् / / 1 // पल्येऽतिमहति कुम्भं शोधयति प्रक्षिपति नालिकाम् / यः संयतः प्रमत्तः बहु निर्जरयति बध्नाति स्तोकम् // 2 // पल्येऽतिमहति कुम्भं शोधयति प्रक्षिपति न किश्चित्। यः संयतोऽप्रमत्तः बहु निर्जरयति न बध्नाति किश्चित् / / 3 // 7 खलूपचया०। 0 तिचित्र०। म अविरतिमिथ्यादृष्टिः। // 134 //