________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 132 // 0.2 उपक्रमादिः, नियुक्तिः 105-106 कोटाकोट्यन्तराऽन्यतरलाभः। वा, न तु जघन्येति प्रासङ्गिकम् / सप्तानामायुष्करहितानां कर्मप्रकृतीनां या पर्यन्तवर्तिनी स्थितिस्तामङ्गीकृत्य सागरोपमाणां कोटीकोटी तस्याः कोटीकोट्या अभ्यन्तरत एव, तुशब्दोऽवधारणार्थः, कृत्वाऽऽत्मानमिति गम्यते यदि लभते यदि प्राप्नोति, चतुर्णां श्रुतसामायिकादीनामन्यतरत्, तत एव लभते नान्यथेति, पाठान्तरं वा कृत्वा सागरोपमाणां स्थितिं लभते चतुर्णामन्यतरत् . इत्यक्षरगमनिका / अवयवार्थोऽभिधीयते- सप्तानां प्रकृतीनां यदा पर्यन्तवर्तिनी सागरोपमकोटीकोटी पल्योपमासंख्येयभागहीना भवति, तदा घनरागद्वेषपरिणामोऽत्यन्तदुर्भेद्यदारुग्रन्थिवत् कर्मग्रन्थिर्भवतीति, आह च भाष्यकार:- गंठित्ति सुदुब्भेओ कक्खडघणरूढगूढगंठिव्व / जीवस्स कम्मजणिओ घणरागद्दोसपरिणामो॥१॥ इत्यादितस्मिन् भिन्ने सम्यक्त्वादिलाभ उपजायते, नान्यथेति, तद्भेदश्च मनोविघातपरिश्रमादिभिः दुस्साध्यो वर्त्तते, तथाहि- स जीवः कर्मरिपुमध्यगतः तं प्राप्य अतीव परिश्राम्यति, प्रभूतकर्मारातिसैन्यान्तकृत्त्वेन संजातखेदत्वात्, संग्रामशिरसीव दुर्जयापाकृतानेकशत्रुनरनरेन्द्रभटवत् / अपरस्त्वाह-किं तेन भिन्नेन? किंवा सम्यक्त्वादिनाऽवाप्तेन!, यथाऽतिदीर्घा कर्मस्थितिः सम्यक्त्वादिगुणरहितेनैव क्षपिता, एवं कर्मशेषमपि गुणरहित एव क्षपयित्वा विवक्षितफलभाग्भवतु, अत्रोच्यते,सहि तस्यामवस्थायां वर्तमानोऽनासादितगुणान्तरोन शेषक्षपणया विशिष्टफलप्रसाधनायालम्, चित्तविघातादिप्रचुरविघ्नत्वात् विशिष्टाप्राप्तपूर्वफलप्राप्त्यासन्नत्वात् प्रागभ्यस्तक्रियया तस्यावाप्तुमशक्यत्वाच्च, अनेकसंवत्सरानुपालिताचाम्लादिपुरश्चरणक्रियासादितगुणान्तरोत्तरसँहाय ®आहेत्यादितः संवेधकथनरूपम्, प्रसङ्गस्तु पूर्वमुत्कृष्टस्थितौ सामायिकप्रतिषेधात् मध्यमायां तु लाभकथनात् / स्वस्वस्थितौ क्षीणायां या शेषा तिष्ठति सा 10न्तर एव। ग्रन्थिरिति सुदुर्भेदः कर्कशघनरूढगूढग्रन्थिवत् / जीवस्य कर्मजनितो धनरागद्वेषपरिणामः // 1 // (विशेषावश्यके गाथा११९५)IOविद्यासाधकस्य बिभीषिकादिनेव मनःक्षोभः। 0 मध्यं गतः। 0 तावती। ००रान्तरसहा०। // 132 //