________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 131 // जीवः आत्मा न लभते न प्राप्नोति, किं तत्?- सामायिक पूर्वव्याख्यातम्, किंविशिष्टं?- चतुर्णामपि सम्यक्त्वश्रुतदेशविरति- 0.2 उपसर्वविरतिरूपाणां एकतर अन्यतमत् इतियावत्, अपिशब्दात् मत्यादि च, न केवलं न लभते, पूर्वप्रतिपन्नोऽपि न भवति, क्रमादिः, नियुक्तिः यतोऽवाप्तसम्यक्त्वो हि न पुनस्तत्परित्यागेऽपि ग्रन्थिमुल्लङ्ग्य उत्कृष्टस्थिती: कर्मप्रकृती: बध्नाति, आयुष्कोत्कृष्टस्थिती 105-106 पुनर्वर्त्तमानःपूर्वप्रतिपन्नको भवति, अनुत्तरविमानोपपातकाले देवो, न तु प्रतिपद्यमानक इति, तुशब्दाजघन्यस्थितौ च कोटाकोट्य न्तराऽन्यवर्तमानः पूर्वप्रतिपन्नत्वान्न लभते, आयुष्कजघन्यस्थितौ च वर्तमानो न पूर्वप्रतिपन्नो नापि प्रतिपद्यमानकः, जघन्यायुष्कस्य तरलाभः। क्षुल्लकभवग्रहणाधारत्वात्, तस्य च वनस्पतिषु भावात्, तत्र च पूर्वप्रतिपन्नप्रतिपद्यमानकाभावात्, प्रकृतीनांच उत्कृष्टेतरभेदभिन्ना खल्वियं स्थितिः- आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः, सप्ततिर्मोहनीयस्य, नामगोत्रयोर्विंशतिः, त्रयस्त्रिंशत्सागरोपमाण्यायुष्कस्य, इति, जघन्या तु द्वादश मुहूर्ता वेदनीयस्य, नामगोत्रयोरष्टौ, शेषाणामन्तर्मुहूर्त (तत्त्वार्थे अ० 8 सूत्राणि 15-16-17-18-19-20-21) इति गाथार्थः ॥१०५॥आह- किमेता युगपदेव उत्कृष्टां स्थितिमासादयन्ति उत एकस्यां उत्कृष्टस्थितिरूपायां संजातायां अन्या अपि नियमतो भवन्ति आहोस्विदन्यथा वा वैचित्र्यमत्रेति, उच्यते अत्र विधिरिति, मोहनीयस्य उत्कृष्टस्थितौ शेषाणामपि षण्णामुत्कृष्टैव, आयुष्कप्रकृतेस्तु उत्कृष्टा वा मध्यमा वा, न तुजघन्येति, मोहनीयरहितानां तु शेषप्रकृतीनां अन्यतमाया उत्कृष्टस्थितेः सद्भावे मोहनीयस्य शेषाणांच उत्कृष्टा वा मध्यमा | आनुपूर्वीनामादिरूप उपक्रमे। 0 श्रुतदेशसर्व०। 0 एकतरत्। 0 मत्यादिज्ञानापेक्षम् / 7 सप्तानाम् / ॐ तत्प्रकृ०1 0 निषेकरूपेति / (c) मेवेति / OR तत्र / ®प्रतिविधानम् / (r). तिसद्भावे। // 131 //