________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 121 // नामकर्मविपाकानुभावात्, तस्य च धर्मदेशनादिप्रकारेणैवानुभूतेः, द्वितीयपक्षे तु त्रैलोक्यगुरोर्धर्मदेशनक्रिया विभिन्नस्वभावेषु / 0.2 उपप्राणिषु तत्स्वाभाव्या विबोधाविबोधकारिणी पुरुषोलूककमलकुमुदादिषु आदित्यप्रकाशनक्रियावत्, उक्तंच वादिमुख्येन- क्रमादिः, त्वद्वाक्यतोऽपि केषाश्चिदबोध इति मेऽद्भुतम् / भानोर्मरीचयः कस्य, नाम नालोकहेतवः?॥१॥न चाद्भुतमुलूकस्य, प्रकृत्या क्लिष्टचेतसः।। नियुक्ति: 91 गणधरकृता स्वच्छा अपि तमस्त्वेन, भासन्ते भास्वतः कराः॥२॥ इत्यादि यथा वा सुवैद्यः साध्यमसाध्यं व्याधिं चिकित्समानः प्रत्याचक्षाणश्च सूत्ररचना नातज्ज्ञः न च रागद्वेषवान, एवं साध्यमसाध्यं भव्याभव्यकर्मरोगमपनयन्ननपनयंश्च भगवान्नातज्ज्ञो न च रागद्वेषवानिति अलं तत्प्रयोजनंच। प्रसङ्गेनेति गाथार्थः।। 89 // तां इति तां ज्ञानकुसुमवृष्टिम्, बुद्धिमयेन- बुद्ध्यात्मकेन, बुद्धिरेवात्मा यस्यासौ बुद्ध्यात्मकस्तेन, केन?- पटेन, गणधराः प्रागुक्ताः ग्रहीतुं आदातुं निरवशेषां संपूर्णां ज्ञानकुसुमवृष्टिम्, बीजादिबुद्धित्वाद्गणधराणाम्, ततः किं कुर्वन्ति?- भाषणानि भाषितानि, भावे निष्ठाप्रत्ययः, तीर्थकरस्य भाषितानि तीर्थकरभाषितानि इति समासः, कुसुमकल्पानि, ग्रनन्ति विचित्रकुसुममालावत्, किमर्थमित्याह-प्रगतं प्रशस्तं प्रधानमादौ वा वचनं प्रवचनं- द्वादशाङ्गं गणिपिटकंतदर्थम्, कथमिदं भवेदितियावत्, प्रवक्तीति वा प्रवचनं सङ्घस्तदर्थमिति गाथार्थः॥ ९०॥प्रयोजनान्तरप्रतिपिपादयिषयेदमाह नि०- घित्तुं च सुहं सुहगणणधारणा दाउं पुच्छिउंचेव / एएहिं कारणेहिं जीयंति कयं गणहरेहिं॥९१॥ ग्रहीतुं च आदातुं च ग्रथितं सत्सूत्रीकृतं सुखं भवति अर्हद्वचनवृन्दम्, कुसुमसंघातवत्, चः समुच्चये, एतदुक्तं भवतिपदवाक्यप्रकरणाध्यायप्राभृतादिनियतक्रमस्थापितं जिनवचनं अयत्नेनोपादातुं शक्यते, तथा गणनंच धारणा च गणनधारणे ते अपि सुखं भवतः ग्रथिते सति, तत्र गणनं- एतावदधीतं एतावच्चाध्येतव्यमिति, धारणा अप्रच्युतिः अविस्मृतिरित्यर्थः,तथा ®भावकत्वात् 0 भवात् / 0 श्रीमद्भिः सिद्धसेनदिवाकरपादैात्रिंशिकायामिति प्रसिद्धिः। ॐ शक्यम्।