________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 120 // 0.2 उपक्रमादिः, नियुक्ति: 90 गणधरकृता सूत्ररचना तत्प्रयोजनंच। तेषामेव शीलादिसंपत्समन्वितत्वप्रतिपादनायाह नि०- तवनियमनाणरुक्खं आरूढो केवली अमियनाणी। तो मुयइनाणवुट्टि भवियजणविबोहणट्ठाए॥८९॥ नि०- तंबुद्धिमएण पडेण गणहरा गिण्हिउं निरवसेसं। तित्थयरभासियाइं गंथंति तओ पवयणट्ठा // 90 // रूपकमिदंद्रष्टव्यम्, तत्र वृक्षो द्विधा- द्रव्यतो भावतश्च, द्रव्यवृक्षः कल्पतरुः, यथा तमारुह्य कश्चित् तत्कुसुमानांगन्धादिगुणसमन्वितानां संचयं कृत्वा तदधोभागसेविनां पुरुषाणां तदारोहणासमर्थानां अनुकम्पया कुसुमानि विसृजति, तेऽपिच भूपातरजोगुण्डनभयात् विमलविस्तीर्णपटेषु प्रतीच्छन्ति, पुनर्यथोपयोगमुपभुजानाः सुखमाप्नुवन्ति, एवं भाववृक्षेऽप्यायोज्यम् / तपश्च नियमश्च ज्ञानं च तपोनियमज्ञानानि तान्येव वृक्षस्तम्, तत्र अनशनादिबाह्याभ्यन्तरभेदभिन्नं तपः, नियमस्तु इन्द्रियनोइन्द्रियभेदभिन्नः, तत्र श्रोत्रादीनां संयमनमिन्द्रियनियमः क्रोधादीनां तु नोइन्द्रियनियम इति, ज्ञान- केवलं संपूर्ण गृह्यते, इत्थंरूपं वृक्षं आरूढः, तत्र ज्ञानस्य संपूर्णासंपूर्णरूपत्वात् संपूर्णताख्यापनायाह-संपूर्णं केवलं अस्यास्तीति केवली, असावपि चतुर्विधः- श्रुतसम्यक्त्वचारित्रक्षायिकज्ञानभेदात्, अथवा श्रुतावधिमनःपर्यायकेवलज्ञानभेदात्, अतः श्रुतादिकेवलव्यवच्छित्तये सर्वज्ञावरोधार्थमाह- अमितज्ञानी, ततो वृक्षात् मुञ्चति ज्ञानवृष्टिं इति कारणे कार्योपचारात् शब्दवृष्टिम्, किमर्थ?- भव्याश्चतेजनाश्च भव्यजनाः तेषां विबोधनं तदर्थं तन्निमित्तमितियावत् / आह-कृतकृत्यस्य सतस्तत्त्वकथनमनर्थकम्, प्रयोजनविरहात्, सति च तस्मिन् कृतकृत्यत्वानुपपत्तेः, तथा सर्वज्ञत्वाद्वीतरागत्वाच्च भव्यानामेव विबोधनमनुपपन्नम्, अभव्याविबोधने असर्वज्ञत्वावीतरागत्वप्रसङ्गादिति, अत्रोच्यते, प्रथमपक्षेतावत् सर्वथा कृतकृत्यत्वंनाभ्युपगम्यते, भगवतः तीर्थकर 0 इत्थंभूतम्। 0 बोधा०। ००स्तत्कथन।