SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 111 // 0.2 उपक्रमादिः, नियुक्ति: 87 सामायिकनियुक्तिप्रतिज्ञा। अर्हगणधरशब्दस्यागमनमस्ति, तस्य श्रुत्यनन्तरमेवोपरमादिति, अत्रोच्यते, उपचाराददोषः, यथा कार्षापणाद् घृतमागतं घटादिभ्यो वारूपादिविज्ञानमिति। एवमियमाचार्यपारम्पर्यहेतुत्वात् तत आगतेत्युच्यते, आगतेवागता, बोधवचनश्चायमागतशब्दो न गमिक्रियावचन इति, अलं विस्तरेण / दव्वपरंपरए इमं उदाहरणं- साकेयं णगरं, तस्स उत्तरपुरच्छिमे दिसिभागे सुरप्पिए नाम जक्खाययणे, सो य सुरप्पिओ जक्खो सन्निहियपाडिहेरो, सो वरिसे वरिसे चित्तिज्जइ, महो य से परमो कीरइ,सोय चित्तिओसमाणोतंचेव चित्तकरंमारेइ, अहन चित्तिज्जइतओजणमारिंकरेइ,ततो चित्तगरा सव्वेपलाइउमारद्धा, पच्छा रण्णा णायं, जदि सव्वे पलायंति, तो एस जक्खो अचित्तिज्ज़तो अम्ह वहाए भविस्सइ, तेणं चित्तगरा एक्कसंकलितबद्धा पाडुहुएहिं कया, तेसि णामाई पत्तए लिहिऊण घडए छूढाणि, ततो वरिसे वरिसे जस्स णामं उट्ठाति, तेण चित्तेयव्वो, एवं कालो वच्चति / अण्णया कयाई कोसंबीओ चित्तगरदारओ घराओ पलाइओ तत्थागओ सिक्खगो, सो भमंतो साकेतस्स। चित्तगरस्स घरं अल्लीणो, सोवि एगपुत्तगो थेरीपुत्तो, सो से तस्स मित्तो जातो, एवं तस्स तत्थ अच्छंतस्स अह तंमि वरिसे Oन दोषः। ॐगति०।० द्रव्यपरम्परके इदमुदाहरणं- साकेत नगरम्, तस्य उत्तरपौरस्त्ये (ईशानकोणे) दिग्भागे सुरप्रियं नाम यक्षायतनम्, स च सुरप्रियो यक्षः (प्रतिमारूपः) सन्निहितप्रातिहार्यः, स वर्षे चित्र्यते, महश्च तस्य परमः क्रियते, स च चित्रितः सन् तमेव चित्रकर मारयति, O अथ न चित्र्यते तदा जनमारिं करोति, ततश्चित्रकाराः सर्वे पलायितुमारब्धाः, पश्चाद्राज्ञा ज्ञातम्, यदि सर्वे पलायिष्यन्ते तर्हि एष यक्षोऽचित्र्यमाणः अस्माकं वधाय भविष्यति, तेन चित्रकरा एकशृङ्खलाबद्धा प्रतिभूकैः (पारितोषिकैः) कृताः, तेषां नामानि पत्रके लिखित्वा घटे क्षिप्तानि, ततो वर्षे वर्षे यस्य नाम उत्तिष्ठते, तेन चित्रयितव्यः, एवं कालो गच्छति। अन्यदा कदाचित् कौशाम्बीकः चित्रकरदारकः गृहात् पलायितः तत्रागतः शिक्षकः (शिक्षितुम्), सभ्राम्यन् साकेतकस्य चित्रकरस्य गृहमालीनः, सोऽपि एकपुत्रकः स्थविरापुत्रः, सोऽथ तस्य मित्रं जातः, एवं तस्मिस्तिष्ठति अथ तस्मिन्वर्षे २७पाहुडएहिं प्र०10. सिं सव्वेसिं / 0 सागेयगस्स / नास्तीदम् /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy