SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 110 // 0.2 उपक्रमादिः, नियुक्तिः 87 सामायिकनियुक्तिप्रतिज्ञा। नियुक्तिकारेण- जिणवयणं सिद्ध चेव भण्णई कत्थवी उदाहरणं। आसज्ज उ सोयारं हेऊवि कहंचिय भणेज्जा॥१॥ इत्यादि / कारणमुपपत्तिमात्रम्, यथा निरुपमसुखः सिद्धः, ज्ञानानाबाधप्रकर्षात्, नात्र आविद्वदङ्गनादिलोकप्रतीतः साध्यसाधनधर्मानुगतो दृष्टान्तोऽस्ति, तत्राहरणार्थाभिधायकं पदमाहरणपदम् , एवमन्यत्रापि भावनीयम् / आहरणंच हेतुश्च कारणंच आहरणहेतुकारणानि तेषां पदानि आहरणहेतुकारणपदानि तेषां निवहः- संघातो यस्यां निर्युक्तौ सा तथाविधा तां एतां वक्ष्यमाणलक्षणां अथवा प्रस्तुतां समासेन संक्षेपेणेति व्याख्यातं गाथात्रयमिति // 86 // तत्र यथोद्देशस्तथा निर्देश इति न्यायात् आदावधिकृताऽऽवश्यकाद्याध्ययनसामायिकाख्योपोद्धातनियुक्तिमभिधित्सुराह___ नि०- सामाइयनिहुत्तिं वुच्छं उवएसियं गुरुजणेणं। आयरियपरंपरएण आगयं आणुपुव्वीए॥ 87 // सामायिकस्य नियुक्तिः सामायिकनियुक्तिः तां वक्ष्ये अभिधास्ये, उप-सामीप्येन देशिता उपदेशिता ताम्, केन?- गुरुजनेन तीर्थकरगणधरलक्षणेन, पुनरुपदेशनकालादारभ्य आचार्यपारम्पर्येण आगताम्, स च परम्परको द्विधा- द्रव्यतो भावतश्च, द्रव्यपरम्परक इष्टकानांपुरुषपारम्पर्येणानयनम्, अत्र चासंमोहार्थं कथानकंगाथाविवरणसमाप्तौ वक्ष्यामः, भावपरम्परकस्त्वियमेव उपोद्घातनियुक्तिरेव आचार्यपारम्पर्येणागतेति, कथं?, आनुपूर्व्यापरिपाट्या जम्बूस्वामिनः प्रभवेनानीता, ततोऽपि शय्यम्भवादिभिरिति, अथवा आचार्यपारम्पर्येण आगतां स्वगुरुभिरुपदेशितामिति / आह- द्रव्यस्य इष्टकालक्षणस्य युक्तं पारम्पर्येण आगमनम्, भावस्य तु श्रुतपर्यायत्वात् वस्त्वन्तरसंक्रमणाभावात् पारम्पर्येणागमनानुपपत्तिरिति, न च तद्बीजभूतस्य O जिनवचनं सिद्धमेव भण्यते कुत्रापि उदाहरणम् / आसाद्य तु श्रोतारं हेतुमपि क्वचिद् भणेत् ॥१॥ॐ कहिंवि। 0 तथा तत्रोदा०। द्यध्ययन०। 7 नेदम् (क्वचित्)। // 110 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy