________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 109 // स्वरूपाभिधानमेतत्, सूत्रार्थयोः परस्परं निर्योजनं नियुक्तिः तां कीर्तयिष्ये प्रतिपादयिष्ये इति गाथार्थः।। ८३॥आह-किमशेष 0.2 उपश्रुतज्ञानस्य?, न, किं तर्हि?, श्रुतविशेषाणामावश्यकादीनामिति, अत एवाह क्रमादिः, नियुक्तिः नि०-आवस्सगस्स दसकालिअस्स तह उत्तरज्झमायारे / सूयगडे निब्रुत्तिं वुच्छामितहा दसाणंच // 84 // 84-86 नि०- कप्पस्स य निजुत्तिं ववहारस्सेव परमणिउणस्स / सूरिअपण्णत्तीए वुच्छं इसिभासिआणं च // 85 // आवश्यकादि शास्त्रनि०- एतेसिं निब्रुत्तिं वुच्छामि अहं जिणोवएसेणं / आहरणहेउकारणपयनिवहमिणं समासेणं / / 86 // नियुक्तिआसांगमनिका-आवश्यकस्य दशवैकालिकस्य तथोत्तराध्ययनाचारयोः समुदायशब्दानामवयवे वृत्तिदर्शनाद्यथा भीमसेनः प्रतिज्ञा। सेन इति उत्तराध्य इति उत्तराध्ययनमवसेयम्, अथवाऽध्ययनमध्यायः, उत्तराध्यायाचारयोः, सूत्रकृतविषयां नियुक्तिं वक्ष्ये, तथा दशानां च सम्बन्धिनीमिति गाथार्थः॥ 84 // तथा कल्पस्य च नियुक्तिं व्यवहारस्य च परमनिपुणस्य, तत्र परमग्रहणं मोक्षाङ्गत्वात् निपुणग्रहणं त्वव्यंसकत्वात्, तथा च न मन्वादिप्रणीतव्यवहारवद्वयंसकोऽयम्, सच्चपइण्णा खु ववहारा इति वचनात्, तथा सूर्यप्रज्ञप्तेः वक्ष्ये, ऋषिभाषितानां च देवेन्द्रस्तवादीनां नियुक्तिम्, क्रियाभिधानं चानेकशः ग्रन्थान्तरविषयत्वात् समासव्यासरूपत्वाच्च शास्त्रारम्भस्य अदुष्टमेवेति गाथार्थः // 85 // एतेषां श्रुतविशेषाणाम्, नियुक्तिं वक्ष्ये अहं जिनोपदेशेन, नतुस्वमनीषिकयैव, आहरणहेतुकारणपदनिवहां एतां समासेन, तत्र साध्यसाधनान्वयव्यतिरेकप्रदर्शनमाहरणं दृष्टान्त इतियावत्, साध्यधर्मान्वयव्यतिरेकलक्षणो हेतुः, हेतुमुल्लङ्घय प्रथम दृष्टान्ताभिधानं न्यायप्रदर्शनार्थ- क्वचिद्धेतुमनभिधाय दृष्टान्त एवोच्यते इति, यथा गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायः, मत्स्यादीनां सलिलवत्, तथा क्वचिद्धेतुरेव केवलोऽभिधीयते, न दृष्टान्तः, यथा मदीयोऽयमश्व: विशिष्टचिह्नोपलब्ध्यन्यथानुपपत्तेः, तथा चाभ्यधायिक