________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 106 // आवश्यक विषयेच्छा, एतेषामपहरणसमर्थं यदित्यर्थः, अथवा सुखावतारं सुखोत्तारं 1 सुखावतारं दुरुत्तारं 2 दुःखावतारं सुखोत्तारं 3 / / 0.2 उपदुःखावतारं दुरुत्तार 4 मिति द्रव्यभावतीर्थं द्रष्टव्यम्, तच्च सरजस्कशाक्यबोटिकसाँधुसम्बन्धि विज्ञेयम्, अलं प्रसङ्गेन। क्रमादिः, नियुक्तिः 80 तथा भगः- समग्रैश्वर्यादिलक्षणः, उक्तं च- ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः। धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना // 1 // ततश्च समग्रैश्वर्यादिभगयोगाद्भगवन्तोऽर्हन्त इति तान् भगवतः। आह-तीर्थकरानित्यनेनैव भगवत इत्यस्य गतार्थत्वात् / निक्षेपाः आवश्यैकातीर्थकृतामुक्तलक्षणभगाव्यभिचारात् नार्थोऽनेनेति, न, नयमतान्तरावलम्बिपरिकल्पिततीर्थक रतिरस्कारपरत्वादस्येति, तथा र्थिकानि 10, चन तेऽविकलभगवन्तः, तान् भगवतो, वन्द इति क्रिया सर्वत्र योज्या। तथा परे-शत्रवः, तेच क्रोधाद्याः, आक्रमणमाक्रमः- अर्थाधिकारः, सभेदा उपक्रम पराजयः तदुच्छेद इतियावत्, परेषामाक्रमः पराक्रमः, सोऽनुत्तरः- अनन्यसदृशो येषां ते तथाविधाः। आह- ये खलु। निक्षेपानुगमाः, ऐश्वर्यादिभगवन्तः तेऽनुत्तरपराक्रमा एव, तमन्तरेण विवक्षितभगयोगाभावात्, ततश्च अनुत्तरपराक्रमान् इत्येतदतिरिच्यते इति, उपोद्धातअत्रोच्यते, अनादिशुद्धैश्वर्यादिसमन्वितपरमपुरुषप्रतिपादनपरनयवादनिराकरणार्थत्वाद् न दोषः, तथा चानुत्तरपराक्रम नियुक्ती मङ्गलं प्रतिज्ञा त्वमन्तरेणैव कैश्चित् हिरण्यगर्भादीनामनादिविवक्षितभगयोगोऽभ्युपगम्यत इति, उक्तंच- ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः। ऐश्वर्यं चैव धर्मश्च, सहसिद्धं चतुष्टयम्॥१॥इत्यादि, अकात्मवादव्यवच्छेदार्थवा। अमितं- अपरिमितं ज्ञेयानन्तत्वात् केवलम्, ॐ अमितं ज्ञानं एषामित्यमितज्ञानिनः / आह-येऽनुत्तरपराक्रमास्तेऽमितज्ञानिन एव नियमेन, क्रोधादिपरिक्षयोत्तरकालभावित्वाद् अमितज्ञानस्येति, उच्यते, सत्यमेतत्, किंतु क्लेशक्षयेऽप्यमितज्ञानानभ्युपगमप्रधाननयवादनिरासार्थत्वाद् उपन्यास इति, तथा / // 106 // 7 तीर्थं भदन्त! तीर्थं तीर्थकरस्तीर्थ?, गौतम! अर्हन् तावन्नियमात्तीर्थकरः तीर्थं पुनः चतुवर्णः श्रमणसङ्घः प्रथमगणधरो वा। 0 मितीत्थं / 0 शैवाः। 7 दिगम्बराः / ॐ जैनसाधवः। 0 अभिख्या / 0 अविकलभगवत इति / 0 सिद्धेश्व 0 / 7 दिक्षयो।