________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 104 // उद्देशादिद्वारलक्षण इति, अस्य च महार्थत्वान्मा भूद्विघ्न इति आरम्भे मङ्गलमुच्यते / आह- ननु मङ्गलं प्रागेवोक्तम्, भूयः किं तेन?, अथ कृतमङ्गलैरपि पुनरभिधीयते, इत्थं तर्हि प्रतिद्वारं प्रत्यध्ययनं प्रतिसूत्रं च वक्तव्यमिति। अत्राह कश्चित्मङ्गलं हि शास्त्रस्यादौ मध्येऽवसाने चेति प्रतिपादितम्, तत्रादिमङ्गलमुक्तम्, इदानीं मध्यमङ्गलमुच्यते, तन्न, अनारब्ध एव शास्त्रे कुतो मध्यावकाश इति, स्यादेतत्, चतुरनुयोगद्वारात्मकं यतः शास्त्रम्, अतोऽनुयोगद्वारद्वये ह्यतिक्रान्ते मध्यमङ्गलम्, अत एव चानुयोगद्वाराणां शास्त्राङ्गतेति, नन्वेवमपि इदं शास्त्रमध्यं न भवति, अध्ययनमध्यत्वात्, शास्त्रमध्ये च मध्यमङ्गलावसर इति, तस्माद् यत्किञ्चिदेतत्, ततश्चायं स्थितपक्षः- इह यदादौ मङ्गलं प्रतिपादितं तदावश्यकादिमङ्गलम्, तु नावश्यकमात्रस्य, सर्वानुयोगोपाद्धातनियुक्तित्वात् प्रक्रान्तोपोद्घातस्य, वक्ष्यति च आवस्सगस्स दसकालियस्स तह मायारे। सूयगडे निजुत्ती, वोच्छामितहा दसाणंच॥१॥इत्यादि, तथा सेसेसुवि अज्झयणेसु, होइ एसेव निजुत्तीचतुर्विंशति देष्विति वक्ष्यति, अतो महार्थत्वात् कथञ्चित् शास्त्रान्तरत्वाच्चास्यारम्भे मङ्गलोपन्यासो युक्त एवेति, आहसामायिकान्वाख्यानेऽधिकृते को हि दशवैकालिकादीनां प्रस्ताव इति, अत्रोच्यते, उपोद्घातसामान्यात्, यतस्तेषामपि प्रायः खल्वयमेवोपाद्धात इति, अलं प्रपञ्चेन / तच्चेदं मङ्गलं नि०-तित्थयरे भगवंते, अणुत्तरपरक्कमे अमियनाणी। तिण्णे सुगइगइगए, सिद्धिपहपदेसए वंदे // 8 // तीर्थकरणशीलास्तीर्थकराः तान् वन्द इति योगः, तत्र 'तृ प्लवनतरणयोः' इत्यस्य पातृतुदिवचिसिचिरिचिभ्यस्थग् (उणादौ Oनन्वित्थमपि। 0 स्थितिपक्षः स्थितःपक्षः। 0 आवश्यकस्य दशवैकालिकस्य तथा उत्तराध्याय आचारे। सूत्रकृते नियुक्तिं वक्ष्यामि तथा दशाश्रुतस्कन्धस्य च। 0 सुत्तगडे। 9 निजृत्तिं / 0 शेषेष्वपि अध्ययनेषु भवत्येषेव नियुक्तिः( निर्युक्तौ)। ष्वपि / 0 रत्वाच्छास्त्रा०10 प्रसङ्गेन / 0.2 उपक्रमादिः, नियुक्ति: 80 आवश्यकनिक्षेपाः आवश्यैकार्थिकानि 10, अर्थाधिकारः, सभेदा उपक्रम निक्षेपानुगमाः, उपोद्घातनियुक्ती मङ्गलंप्रतिज्ञा . च / // 104 //