________________ 0.2 उपक्रमादिः, आवश्यक श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 103 // समवतारः, सच लाघवार्थं प्रतिद्वारं समवतारणाद्वारेण प्रदर्शित एव / उक्त उपक्रमः, इदानीं निक्षेपः, स च त्रिधा- ओघनिष्पन्नो नामनिष्पन्नः 2 सूत्रालापकनिष्पन्नश्चेति 3 / तत्र ओघो नाम यत् सामान्यं शास्त्राभिधानम्, तच्चेह चतुर्विधमध्ययनादि, पुनः प्रत्येकं नामादिचतुर्भेदमनुयोगद्वारानुसारतः प्रपञ्चेनाभिधाय भावाध्ययनाक्षीणादिषु सामायिकमायोज्यम्।नामनिष्पन्ने निक्षेपेल निक्षेपाः सामायिकम्, तच्च नामादिचतुर्विधम्, इदं च निरुक्तिद्वारे सूत्रस्पर्शिकनियुक्तौ च प्रपञ्चेन वक्ष्यामः, आह- यदि तदिह नाम आवश्यैका र्थिकानि 10, अवसरप्राप्तं किमिति निरुक्त्यादावस्य स्वरूपप्रतिपादनम्, तत्र चेत्स्वरूपाभिधानमस्य हन्त इहोपन्यासः किमिति, अत्रोच्यते, अर्थाधिकारः, इह निक्षेपद्वारे निक्षेपमात्रस्यैवावसरः, निरुक्तौ तु तदन्वाख्यानस्येति, आह- इत्थमपि निरुक्तिद्वार एव सामायिकव्याख्यानतः | सभेदा उपक्रम निक्षेपाकिं पुनः सूत्रेऽभिधीयते इति, उच्यते, तत्र हि सूत्रालापकव्याख्यानम्, न तु नाम्नः निरुक्तौ तु निक्षेपद्वारन्यस्तं समायिक नुगमाः , मित्यध्ययनाभिधानं निरूप्यते, अलं प्रपञ्चेन, उक्तो नामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकनिष्पन्नस्य निक्षेपस्यावसरः, सह उपोद्धात | निर्युक्तौ। च प्राप्तलक्षणोऽपि न निक्षिप्यते, कस्मात्?, सूत्राभावात्, असति च सूत्रे कस्यालापकनिक्षेप इति, अतोऽस्ति इतः तृतीयमनुयोगद्वारमनुगमाख्यम्, तत्रैव निक्षेप्स्यामः। आह- यदि प्राप्तावसरोऽप्यसाविह न निक्षिप्यते किमित्युपन्यस्यते इति, उच्यते, निक्षेपसामान्यात् इह प्रदर्श्यत एव, न तु प्रतन्यते इति / इदानीमनुगमावसरः, सच द्विधा-निर्युक्त्यनुगमः सूत्रानुगमश्च, नियुक्त्यनुगमस्त्रिप्रकारः, तद्यथा- निक्षेपनिर्युक्त्यनुगम उपोद्धातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनिर्युक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमोऽनुगत एव, यदधो नामादिन्यासान्वाख्यानमुक्तमिति / इदानीमुपोद्धातनिर्युक्त्यनुगमप्रस्तावः, स च / // 10 // Oआदिनाऽक्षीणायक्षपणाग्रहणं अज्झयणं अक्खीणं आओ झवणा य पत्तेयं ति वचनात्। 0 उपोद्धातनिर्युक्तौ। (r) प्रसङ्गेन 10 इतः परम् / 7 आवश्यकसामायिकादीनां न्यासाख्यानात् निक्षेपस्थाने नाम्ना कीर्तनमत्र तु व्याख्यानमिति /