________________ भाग-१ श्रीआवश्यक च, तत्र जीवादपृथग्भूतत्वात्सामायिकस्य जीवगुणप्रमाणे समवतारः, तदपिज्ञानदर्शनचारित्रभेदभिन्नम्, तत्र बोधात्मकत्वानियुक्ति सामायिकस्य ज्ञानगुणप्रमाणे समवतारः, तदपि प्रत्यक्षानुमानोपमानागमभेदभिन्नम्, तत्र सामायिकस्य प्रायः परोपदेशस| भाष्यश्रीहारि० व्यपेक्षत्वादागमे समवतारः, सच लौकिकलोकोत्तरसूत्रार्थोभयात्मानन्तरपरम्पराभेदभिन्न इति, तत्र सामायिकस्य परमर्षिवृत्तियुतम् प्रणीतगणिपिटकान्तर्गतत्वात् लोकोत्तरे समवतारः, सूत्रार्थरूपत्वाच्च तदुभय इति, तथेदं गौतमादीनां सूत्रत आत्मागमः, // 102 // तच्छिष्याणां जम्बूस्वामिप्रभृतीनां अनन्तरागमः, प्रशिष्याणां तु प्रभवादीनां परम्परागम इति, एवमर्थतोऽर्हतामात्मागमः गणधराणामनन्तरागमः तच्छिष्याणां तु परम्परागम इति / नयप्रमाणे तु मूढनयत्वात्तस्य नाधुनाऽवतार इति , वक्ष्यति चमूढणइयं सुयूं कालियं तुइत्यादि संख्या नामस्थापनाद्रव्यक्षेत्रकालौपम्यपरिमाणभावभेदभिन्ना, यथाऽनुयोगद्वारेषु तथा वक्तव्या, तत्रोत्कालिकादिश्रुतपरिमाणसंख्यायां समवतारः, तत्र सूत्रतः सामायिकं परिमितपरिमाणम्, अर्थतोऽनन्तपर्यायत्वादपरिमितपरिमाणमिति / इदानीं वक्तव्यता-सा च त्रिविधा-स्वसमयवक्तव्यता 1 परसमयवक्तव्यता 2 उभयसमयवक्तव्यता ३चेति / स्वसमय:-स्वसिद्धान्तः, वक्तव्यता पदार्थविचारः, तत्र स्वसमयवक्तव्यतायामस्य समवतारः, एवं परोभयसमयप्रतिपादकाध्ययनानामपि, यतः सर्वमेव सम्यग्दृष्टिपरिगृहीतं परसमयसम्बन्ध्यपि सम्यकूश्रुतमेव, तस्य स्वसमयोपकारकत्वादिति / इदानीमर्थाधिकारः, सचाध्ययनसमुदायार्थः, स्वसमयवक्तव्यतैकदेशः, सच सर्वसावद्ययोगविरतिरूपः / इदानीं O०म्पर०10 नामस्थापनाद्रव्यौपम्यपरिमाणज्ञानगणनभावभेदाद् अनुयोगेषु यत्सूत्रं-से किं तं संखप्पमाणे? संख० अट्ठविहे पण्णत्ते, तंजहा-नामसंखा ठवणासंखा दव्वसंखा ओवम्मसंखा परिमाणसंखा जाणणासंखा गणणासंखा भावसंखा- इह संख्याशब्देन संख्याशङ्खयोहणं द्रष्टव्यं प्राकृतमधिकृत्य (अनु०५४९)10०लिकश्रु। 80०कारित्वात् / 9 सावद्या 0.2 उपक्रमादिः, आवश्यकनिक्षेपाः आवश्यैकार्थिकानि 10, अर्थाधिकारः, सभेदा उपक्रम निक्षेपानुगमाः, उपोद्धातनियुक्तौ / // 102 //