SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 98 // अथवैकत्र विनाशस्यैव विवक्षितत्वाददोषः / एवमचित्तद्रव्योपक्रमः पद्मरागमणेः क्षारमृत्पुटपाकादिना वैमल्यापादनविनाशादीति। मिश्रद्रव्योपक्रमस्तु कटकादिविभूषितपुरुषादिद्रव्यस्यैवेति। विवक्षातश्च कारकयोजना द्रष्टव्या- द्रव्यस्य द्रव्येण द्रव्यात् द्रव्ये वोपक्रमो द्रव्योपक्रम इति / तथा क्षेत्रस्योपक्रमः क्षेत्रोपक्रमः, आह- क्षेत्रममूर्तं नित्यं च, अतस्तस्य कथं करणविनाशाविति, उच्यते, तद्व्यवस्थितद्रव्यकरणविनाशभावादुपचारतः खल्वदोषः, तथा च तात्स्थ्यात्तद्व्यपदेशो युक्त एव, मञ्चाः क्रोशन्तीति यथा। तथा कालस्य वर्तनादिरूपत्वात् द्रव्यपर्यायरूपत्वात् द्रव्योपक्रम एवोपचारात् कालोपक्रम इति, चन्द्रोपरागादिपरिज्ञानलक्षणोवा। भावोपक्रमो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता उपयुक्तः, नोआगमतस्तु प्रशस्तोऽप्रशस्तश्चेति, तत्राप्रशस्तोडोण्डिणिगणिकाऽमात्यादीनाम्, एत्थोदाहरणाणि- एगेनगरे एगा मरुगिणी, सा चिंतेतिकह धूयाओ सुहियाओ होज्जत्ति, ताए जेट्ठिया धूआ सिक्खाविआ जहा वरं इंतं मत्थए पण्हियाए आहणिज्जसि, ताए आहतो, सो तुट्ठो, पादं महिउमारद्धो, णहु दुक्खाविअत्ति, तीए मायाए कहियं, ताए भण्णति-जं करेहि तं करेहि, ण एस तुज्झ किंची अवरज्झइत्ति / बीया सिक्खविआ, तीएवि आहतो, सो झिंखित्ता उवसंतो, सा भणति-तुमंपि वीसत्था विहराहि, णवरं झिंखणओ एसुत्ति। तईया सिक्खविआ, तीएवि आहतो, सोरुट्ठो, तेण दढं पिट्टिता धाडिया य, तं अकुलपुत्ती Oअत्रोदाहरणानि- एकस्मिन्नगरे एका ब्राह्मणी सा चिन्तयति- कथं दुहितरः सुखिताः भवेयुरिति, तया ज्येष्ठा दुहिता शिक्षिता यथा वरमायान्तं मस्तके पार्णिना आहन्याः, तयाऽऽहतः, स तुष्टः, पादं मर्दयितुमारब्धः नैव दुःखितेति, तया मात्रे कथितम्, तया भण्यते- यत्कुरु (चिकीर्षसि) तत्कुरु नैष तव (त्वयि) किश्चिदपराध्यति इति / द्वितीया शिक्षिता, तयाऽप्याहतः स झिङ्गित्वा (प्रभाष्य) उपशान्तः, सा भणति- त्वमपि विश्वस्ता विहर, परं झिङ्गणकः (प्रभाषकः) एष इति / तृतीया शिक्षिता, तयाऽप्याहतः, स रुष्टः, तेन दृढ़ पिट्टिता निर्धाटिता च, त्वमकुलपुत्री 20 बम्भिणी। 0 किहं / 0 तयाहतो। 9 एयस्स। O तत्तिआ। 00 पुत्तिया / | 0.2 उपक्रमादिः, आवश्यकनिक्षेपाः आवश्यैकार्थिकानि 10, अर्थाधिकारः, सभेदा उपक्रम निक्षेपानुगमाः, उपोद्धातनिर्युक्तो। // 98 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy