________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 17 // नुगम्यते, न चार्थतोऽननुगतं नयैर्विचार्यते इत्यतोऽयमेव क्रम इति / तत्रोपक्रमो द्विविधः-शास्त्रीय इतरश्च, तत्र इतरः षट्प्रकारः, 0.2 उपनामस्थापनाद्रव्यक्षेत्रकालभावभेदभिन्न इति, तत्र नामस्थापने सुज्ञाने, द्रव्योपक्रमो द्विविधः- आगमतो नोआगमतश्च, क्रमादिः, आवश्यकआगमतो ज्ञाताऽनुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तश्च, सच त्रिविधः-सचित्ताचित्तमिश्रद्रव्योपक्रम इति, निक्षेपाः तत्र सचित्तद्रव्योपक्रमः द्विपदचतुष्पदापदोपाधिभेदभिन्नः, पुनरेकैको द्विविधः- परिकर्मणि वस्तुविनाशे च, तत्र परिकर्म- आवश्यैका र्थिकानि 10, द्रव्यस्य गुणविशेषपरिणामकरणं तस्मिन्सति, तद्यथा- घृताधुपभोगेन पुरुषस्य वर्णादिकरणमिति, अथवा कर्णस्कन्ध अर्थाधिकारः, वर्धनादिक्रियेति, अन्ये तुशास्त्रगन्धर्वनृत्यादिकलासंपादनमपि द्रव्योपक्रमव्याचक्षते, इदं पुनरसाधु, विज्ञानविशेषात्मकत्वात् / सभेदा उपक्रम निक्षेपानुगमाः, शास्त्रादिपरिज्ञानस्य, तस्य च भावत्वादिति, किन्तु आत्मद्रव्यसंस्कारविवक्षापेक्षया शरीरवर्णादिकरणवत् स्यादपीति। उपोद्धातएवं शुकसारिकादीनां शिक्षागुणविशेषकरणम्, तथा चतुष्पदानां हस्त्यादीनाम्, अपदानां च वृक्षादीनां वृक्षायुर्वेदोपदेशाद् निर्युक्तौ। वार्धक्यादिगुणापादनमिति, आह- यत्स्वयं कालान्तरभाव्युपक्रम्यते यथा तरोर्वार्धक्यादि तत्र परिकर्मणि द्रव्योपक्रमता युक्ता, वर्णकरणकलादिसंपादनस्य तु कालान्तरेऽपि विवक्षितहेतुजालमन्तरेणानुपपत्तेः कथं परिकर्मणि द्रव्योपक्रमतेति, अत्रोच्यते, विवक्षितहेतुजालमन्तरेणानुपपत्तेरित्यसिद्धम्, कथं?, वर्णस्य तावन्नामकर्मविपाकित्वात् स्वयमपि भावात्, कलादीनांच क्षायोपशमिकत्वात्, तस्य च कालान्तरेऽपिस्वयमपि संभवात्, विभ्रमविलासादीनांच युवावस्थायां दर्शनात् ] (ग्रन्थाग्रं 1500) / तथा वस्तुविनाशे च पुरुषादीनां खड्गादिभिर्विनाश एवोपक्रम्यते इति, आह- परिकर्मवस्तुविनाशोपक्रमयोरभेद एव, उभयत्रापि पूर्वरूपपरित्यागेनोत्तरावस्थापत्तेरिति, अत्रोच्यते, परिकर्मोपक्रमजनितोत्तररूपापत्तावपि अविशेषेण प्राणिनां प्रत्यभिज्ञानादिदर्शनात् वस्तुविनाशोपक्रमसंपादितोत्तरधर्मरूपे तु वस्तुन्यदर्शनात् विशेषसिद्धिरिति, // 97 //