SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ | // 16 // इदानीमवयवार्थप्रदर्शनाय एकैकमध्ययनं वक्ष्यामः, तत्र प्रथममध्ययनं सामायिकंसमभावलक्षणत्वात्, चतुर्विंशतिस्तवादीनां 0.2 उपच तद्भेदत्वात् प्राथम्यमस्येति / अस्य च महापुरस्येव चत्वार्यनुयोगद्वाराणि भवन्ति / अनुयोगद्वाराणीति कः शब्दार्थः?, क्रमादिः, | आवश्यकअनुयोगोऽध्ययनार्थः, द्वाराणि तत्प्रवेशमुखानीति, यथा हि अकृतद्वारं नगरमनगरमेव भवति, कृतैकद्वारमपि च दुरधिगम निपाः कार्यातिपत्तये च, कृतचतुर्मूलद्वारं प्रतिद्वारानुगतं सुखाधिगम कार्यानतिपत्तये च, एवं सामायिकपुरमपि अर्थाधिगमोपाय- आवश्यैका र्थिकानि 10, द्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगमं भवति, सप्रभेदचतुरानुगतं तु सुखाधिगमं इत्यतः अर्थाधिकारः, द्वारोपन्यासः / तानि च अमूनि- उपक्रमो१निक्षेपो 2 ऽनुगमो ३नय 4 इति / तत्र शास्त्रस्य उपक्रमणं उपक्रम्यतेऽ- सभेदा उपक्रम निक्षेपानुगमाः, नेनास्मादस्मिन्निति वा उपक्रमः,शास्त्रस्य न्यासदेशानयनमित्यर्थः। तथा निक्षेपणं निक्षिप्यतेऽनेनास्मादस्मिन्निति वा निक्षेपः उपोद्धातन्यासः स्थापनेति पर्यायाः। एवमनुगमनं अनुगमः अनुगम्यते वाऽनेनास्मादस्मिन्निति वाऽनुगमः, सूत्रस्यानुकूलः परिच्छेद |निर्युक्तौ। इत्यर्थः / एवं नयनं नीयते वाऽनेनास्मादस्मिन्निति वा नयः, वस्तुनः पर्यायाणां संभवतोऽधिगम इत्यर्थः / आह- एषामुपक्रमादिद्वाराणां किमित्येवं क्रम इति, अत्रोच्यते, न ह्यनुपक्रान्तंसद् असमीपीभूतं निक्षिप्यते, न चानिक्षिप्तं नामादिभिरर्थतोऽ प्रतिपादनाय / ॐ विना समभावमितरगुणानवस्थानात् तत्सद्भाव एव परगुणोत्पत्तेः प्राथम्यमस्येत्यर्थः। (c) सामायिकस्य ज्ञानदर्शनचारित्रभेदभिन्नतया , चतुर्विंशत्यादेश्च सम्यक्त्वादिसामायिकरूपत्वात् सामायिकभेदत्वाख्यानम् / 0 सामायिकाध्ययनस्य। 9 तद्द्वारो। 0 प्रतिपादनप्रकाराः। 0 गुरुवाग्योगः। ON * विनीतविनेयविनयः। शुश्रूषा / (r) गुरुवाग्योगादीनां सर्वकारकवाच्यत्वेऽप्यविरोधः। (r) नास्तीदम्। (r) शास्त्रस्य। (r) संभवद्भिः पर्यायैर्वस्तु नयति, // 96 // यदिवा बहुधा वस्तुनः पर्यायाणां संभवात् विवक्षितपर्यायेण नयनम्, आद्ये पर्यायाणां सत्ताया ज्ञानं यथायथम, द्वितीयस्मिन् पर्यायाणां मध्ये संभवतः पर्यायानाश्रित्येति ज्ञेयम्, तथा चाद्ये सम्बन्धे षष्ठी पञ्चम्याः तसुश्च, द्वितीये सप्तमी चाविभाग इति षष्ठी, गम्ययप इति पञ्चम्यास्तसुश्च /
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy