SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 95 // सामायिकादीनामध्ययनानांसमावेशात्, ज्ञानदर्शनक्रियोपयोग इत्यर्थः, नोशब्दस्तु मिश्रवचनः। सर्वपदैकवाच्यता सामायि 0.2 उपकादिश्रुतविशेषाणां षण्णां स्कन्धः श्रुतस्कन्धः, आवश्यकं च तत् श्रुतस्कन्धश्चेति समासः / आह- किमिदं आवश्यक क्रमादिः, आवश्यकषडध्ययनात्मकमिति, अत्रोच्यते, षडाधिकारात्मकत्वात्, ते चामीसामायिकादीनां यथायोगमवसेया इति-सावजजोग- निक्षेपाः विरई 1 उक्तित्तण 2 गुणवओ य पडिवत्ती 3 / खलियस्स निंदण 4 वणतिगिच्छ 5 गुणधारणा 6 चेव // 1 // अस्या आवश्यैका र्थिकानि 10, व्याख्या- अवयं पापम्, युज्यन्त इति योगाः व्यापाराः, सहावद्येन वर्त्तन्त इति सावद्याः, सावद्याश्च ते योगाश्चेति समासः, अर्थाधिकारः, तेषां विरमणं विरतिः सामायिकाधिकार इति 1 उत्कीर्तनमुत्कीर्तना, तत्र गुणोत्कीर्तना अर्हतां चतुर्विंशतिस्तवस्य / सभेदा उपक्रम निक्षेपानुगमाः, गुणा ज्ञानादयः मूलोत्तराख्या वा,तेऽस्य विद्यन्त इति गुणवान् तस्य गुणवतः प्रतिपत्तिर्वन्दनाध्ययनस्य 3 / चशब्दः समुच्चये, उपोद्धातस्खलितस्येति श्रुतशीलस्खलितस्य निन्दना प्रतिक्रमणस्य 4 / तथा चारित्रात्मनो व्रणचिकित्सा- अपराधव्रणरोहणं निर्युक्तौ / कायोत्सर्गस्य 5 / अपगतव्रतातिचारेतरोपचितकर्मविशरणार्थमनशनादिगुणसंधारणा प्रत्याख्यानस्य 6 इत्यर्थाधिकाराः। एषां च प्रत्यध्ययनमर्थाधिकारद्वार एवावसरः प्रत्येतव्यः, इह तु प्रसङ्गतः स्कन्धोपदर्शनद्वारेणोक्ता इति / इदानीं अध्ययनन्यासप्रस्तावः, तंचानुयोगद्वारक्रमायातं प्रत्यध्ययनं ओघनिष्पन्ननिक्षेपे लाघवार्थं वक्ष्यामः / एष आवश्यकस्य समुदायार्थः, 0वाक्यता। 0 षण्णामधिकारा०10 चिगिच्छ०। सम्बन्धषष्ठी, तेन परिभाषिता ज्ञात्वाऽभ्युपेत्याकरणरूपा विरतिरत्र, न तु केवलाभावरूपा निवृत्तिरूपा वा। अर्थाधिकार इति वर्तते। 0 व्यवहारगुर्वपेक्षया। वन्दनकदानादिपूजाविशेषरूपा। पुष्टालम्बनेऽगुणवतोऽपि प्रतिपत्तिः कर्त्तव्येति द्रष्टव्यं (मलयगिरिपादाः,8 अनु० वृत्तौ च 11) इति वचनादनुक्तसमुच्चयार्थ इत्यर्थः। ॐ पञ्चविधावश्यकैरपगता येऽतिचारास्तदितरैरतिचारैः। आनुपूर्वीनामप्रमाणवक्तव्यतार्थाधिकारसमवतार-8 रूपशास्त्रीयोपक्रमान्तर्गते पश्चमद्वारे। नामनिष्पन्ननिक्षेपेचेति(मलयगिरिपादाः)®प्रत्यध्ययनं कार्यः, लाघवार्थमिह सामायिकाध्ययने इति मल्लधारिपादानामभिप्रायः। (r) सावज्जजोग. विरईत्यादिना प्रतिपादितः, षण्णामपि अर्थाधिकाराणां प्रतिपादनात् / // 95 //
SR No.600436
Book TitleAvashyak Sutram Part 01
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages498
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy